________________
सरः ३] कदाचिदप्रकाशमानत्वपरप्रकाश्यत्वादीना मिथ्यात्वसाधकत्वालभवकथनम् 233
सर्वार्थसिद्धिः प्रकाशमानत्वान्मिथ्यति, तत्र किमस्मदाद्यपेक्षया कदाचिदप्रकाशमानत्वं हेतुः ? उत सर्वापेक्षया ? नाद्यः, सामग्रयनुदयप्रयुक्तस्य प्रकाशाभावस्य प्रकाश्यमिथ्यात्वसाधकत्वायोगात् न च पशुभिर्नुपशुभिश्चाविदितेष्वदृष्टेश्वरादिषु प्रामाणिकैरसत्यत्वमध्यवसीयते। वयं तु तत्राप्यध्यवस्याम इति चेन्न ; ब्रह्मण्यपि प्रसङ्गात् । विदितमेवास्माभिरप्यात्मतया ब्रह्मेति चेत् , किमर्थं तर्हि तद्विविदिषया यज्ञदानाधुपादानम् ? शारीरकारम्भश्च । अविदिताकारबोधार्थमिति चेन्न, तस्यैवाकारस्य मिथ्यात्वप्रसङ्गात् । तत्त्वावेदकवाक्यवेद्यस्य च मिथ्यात्व व्याहतम् । निराकारे च कथं विदिताविदिताकारभेदः । तत्कल्पनयेति चेत्तर्हि कल्पिताकारविविदिषयैव शास्त्राद्यारम्भात् स्वेष्टोपप्लवः । न द्वितीयः, ईश्वरस्य नित्यसर्वज्ञतया तदसिद्धेः । प्रकाशप्रकाश्ययोश्च भिन्नायुप्कत्वं
आनन्ददायेनी प्रामाणिकैरिति । व्यभिचारादिति भावः । कदाचिदप्रकाशमानत्वं ब्रह्मण्यसिद्धमेवेति शङ्कते-विदितमेवेति । किमर्थमिति । वेदनस्य सर्वदा प्रकाशमानस्य यज्ञादिसाध्यत्वाभावेन तेषां वैयर्थ्यमिति भावः । इष्टापत्तिं परिहरति-तत्वेति। किं च स आकारो ब्रह्मस्वरूपं वा तदन्यो वा ; नाद्य इत्याह-निराकारे चेति । द्वितीयं शङ्कतेतत्कल्पनयेति । स्वष्टस्य तत्त्वावेद'कस्य उपप्लवो भङ्गः। नन्वीश्वरज्ञानस्य नित्यस्य कथमनित्यगोचरत्वं नित्यज्ञानविषयस्य नित्यत्वानियमात् , तथा च नासिद्धिरित्यत्राह-प्रकाशेति । भिन्नायुष्कत्वमिति । न्यूनाधिककालवृत्तित्वं अविद्याप्रपञ्चसुखदुःखेच्छाद्वेषतत्प्रका शब्रह्मसाक्षि
1कत्वस्य-क