SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ सरः ३] दृक्संबन्धानुपपत्तिनिरासार्थ दृग्दृश्यसंबन्धस्वरूपविमर्शः 227 सर्वार्थसिद्धिः न द्वितीयः, विषयस्य सत्यतायाम सत्यस्संबन्धो न स्यादिति ह्यत्र प्रसङ्गः स्यात् । अयं ब्रह्मण्यतिचरितः, इष्टप्रसङ्गश्च ; विपर्ययविश्रान्तिश्चाद्याप्यसिद्धा । अत एव न तृतीयचतुर्थो, व्याघाताच्च । तथाऽपि कोऽसौ दृग्दृश्ययोस्संबन्ध इति 4निर्मत्सरः पृच्छामीति चेत्, वयमपि निर्मत्सराः पृच्छन्तं पृच्छामः । तत्र किंनामेति वा, किंस्वरूप इनि वा. संयोगादिषु कतम इति वा, तेष्वन्तर्भूतो बहिर्भूतो वेति वा, सत्योऽसत्यो वेत्यादिप्रकारकोटिभेदेन प्रश्नार्थः स्यात् ? नाद्यः, अज्ञातविशेषनाम्नामानन्त्यात् ; सामान्यतस्तु प्रश्नवाक्येऽपि प्रख्यातेः । न द्वितीयः, सर्वत्र स्वरूपमात्रे प्रश्नोत्तरविचारादेरनवतारात् । न तृतीयः, संयोगादिराश्यन्तर्भावनिबन्धाभावात् , अन्यथा सर्वत्र तज्जातीयराशिविशेषप्रश्नप्रसङ्गात् । आनन्ददायिनी सम्बन्ध स्य दौर्घट्याभावात् तद्विशेषस्य सुतरां दौर्घट्यं नास्तीति भावः । अयमिति । ब्रह्मणो वेदान्तजन्यवित्तिविषयत्वादित्यर्थः । इष्टेति । असत्यत्वाभावस्येष्टत्वादित्यर्थः । विपर्ययविश्रान्तिरिति । असत्यश्चायं सम्बन्ध इति वाच्यम् ; न च प्रपञ्चमिथ्यात्वसिद्धेः प्राक् दृग्दृश्यसम्बन्धो मिथ्यात्वेन सिद्ध इति भावः । अत एवेति । इष्टप्रसङ्गाद्विपर्ययविश्रान्त्यिसिद्धेश्वेत्यर्थः । अज्ञातेति । इक्षुक्षीरादिमाधुर्याणामित्यर्थः । सामान्यत इति । प्रश्नवाक्ये केनचिच्छब्देनाभिधानादित्यर्थः । सर्वत्रेति । सिद्धस्वरूप धर्मिविशेषविषयत्वात् प्रश्नस्येति भावः । अन्यथेति । ब्रह्मणोऽपि यत्किंचिज्जातीयत्वप्रश्नप्रसङ्गेन तत्राप्युत्तरं 1 सत्यसब-पा. इष्टश्च-पा. विपर्यये विश्रा-पा. + निर्मत्सराः पृच्छाम इति-पा. 5 अप्रज्ञात-पा. सर्वत्रातज्जा-पा. 'स्य दौर्बल्यदौर्घ-क. 8 च्छन्दाभिधा-ग. धर्मवि-क. 15*
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy