________________
226
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलाप
[नायक
सर्वार्थसिद्धिः संबन्धः स्वीकार्यः । न चासौ घटते विकल्पदौःस्थ्यादिति प्रसङ्ग. तद्विपर्ययाविति चेन्न ; इष्टप्रसङ्गत्वात् । दृशस्सत्यत्वेऽपि दृश्यसंबन्धासत्यत्ववद् दृश्यस्य सत्यत्वेऽपि दृशिसंबन्धमात्रासत्यत्वमनुपपत्त्या कल्प्यम् । ढक्संबन्धासत्त्वे तदधीनसिद्धः कथं सत्यत्वामिते चेन्न; असत्यात्सत्यसिद्धेस्त्वया त्वद्विधैश्च जाघुप्यमाणत्वात् ; अस्माकं त संबन्धविकल्पदौःस्थ्यानङ्गीकारादेव समीहितसिद्धिः ।
संबन्धफलसिद्धौ च स्वरूपे दुरपह्नवे । अन्तर्भावबहिर्भावविवादस्त्विह निष्फलः ॥ ये च दृग्दृश्यसंबन्धे सयोगादिविकल्पतः । दोषाः प्रलपितास्तेऽत्र दृश्याः सत्यत्वभीरवः ।। सबन्धमात्रदौर्घट्यात्तद्विशेषोऽपि दुर्घटः । इति चान्धस्य जात्यन्धयष्टिदानोपम विदुः ।।
आनन्ददायिनी वाच्ये दृग्दृश्यसम्बन्धस्यापि पक्षान्तर्भावात् बाधेन पर्यवसानं न स्यादित्यर्थः । विकल्पदौःस्थ्यादिति । संयोगसमवायादिविकल्पदौःस्थ्यादित्यर्थः। असत्यात् सत्यसिद्धिः -रज्जुसादिभिर्भयसिद्धिः । त्वद्विधाः-योगाचारादयः। तैरिन्द्रियैस्तथाविधैानसिद्धिरङ्गीकृता। अनङ्गीकारे हेतुमाह - सम्बन्धफलेति । अन्तभवेति ! प्रमाणसिद्धस्यान्यतरत्वसम्भवादिति भावः । अत्र दृश्याः सत्यत्वभीरव इति । अत्र काल्पनिकसम्बन्धपक्षे सत्यत्वात् भीरवो विरोधिनस्ते दोषा दृश्याः द्रष्टव्या इत्यर्थः । भीरुभिरिति पाठः क्वचित् । इति चान्धस्येति ।
1दृश्यसंव-पा. 2 दृश्यासत्यत्व-पा. 3 विधेयशान-क.