SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ सरः ३] जगतरसत्यत्वे परैरापादिताया दृग्दृश्यसबन्धानुपपत्तेर्निरसनम् 225 सर्वार्थसिद्धिः विशेषेण तुच्छबहिर्भावक्लप्तिभङ्गप्रसङ्गात् । ननु सत्ये दृक्सम्बन्धोऽनुपपन्नः, अस्वयंप्रकाशस्य स्वतस्सिद्धिविरहेण सत्यत्वायोगात् । तुच्छेऽपि तथा, स्वरूपाभावे संबन्धाभावात् ; अनिर्वचनीये त्वविद्यामाहत्म्यादाध्यासिकस्संबन्धस्सिध्यन् दुरपह्नव इति, तन्न ; पराधीन. सिद्धेरपि निर्बाधस्य सत्यत्वाविरोधात् ; 1 सत्यत्वेऽपि ब्रह्मणि आध्यासिकदृक्संबन्धाभ्युपगमाच्च । दृक्संबन्धश्च दृश्यानामसत्यत्वे विवक्षितः । सत्यत्वादिविकल्पेन सीदत्यनुपपत्तिमान् ।। सत्यत्वे त्वनुपपद्यमानो हि दृक्संबन्धः सत्योऽसत्य उभयरूपोऽनुभयरूपो वा ? । नाद्यः ; सत्यत्वे प्रपञ्चस्य हक्संबन्धस्सत्यो न स्यात् । असत्यश्चासाविति विपर्ययविश्रमायोगात् । विषयसत्यत्वे हि धिया आनन्ददायिनी चेन्न । तेषामीश्वराध्यासविषयत्वेन वैषम्यादिति भावः । मायिपक्षेऽपि दूषयितुमन्यथानुपपत्तिस्वरूपमाह-नन्वित्यादिना । ननु सत्यत्वे सम्बन्धानुपपत्तिरेव बाध इति चेत्तत्राह-सत्यत्वेऽपीति । ननु वृत्तिविषयत्वमेव ब्रह्मणो न चैतन्यसम्बन्ध इति चेत्तर्हि प्रपञ्चेऽपि वृत्तिविषयत्वमेव न चैतन्यविषयत्वमिति वक्तं शक्यत्वात् । दृक्सम्बन्धेति । दृश्यानां सत्यत्वेऽनुपपद्यमानो हक्सम्बन्धः सत्योऽसत्यो वेति विकल्पासहत्वेनानुपपन्न इत्यर्थः । उभयरूपः-सत्यासत्यस्वरूपः । अनुभयरूपः-सत्यासत्यभिन्नः। सत्यत्वे प्रपञ्चस्येति । त्वया ह्येवं तर्कः प्रयोज्यः ; प्रपञ्चस्य सत्यत्वे दृग्दृश्यसम्बन्धः सत्यो न स्यादिति, तत्र सत्यश्च सम्बन्धः; तस्मादसत्यश्चासौ प्रपञ्च इति विपर्यये पर्यवसाने 1 सत्येऽपि-पा. २ बारियं तर्कः-ग. SARVARTHA VOL. IV 15
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy