________________
224
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
नायक
सर्वार्थसिद्धिः भदिति चेन्न : ख्यातिबाधान्यथानुपपत्तितकोनुदयप्रसङ्गात् । अथ शब्दज्ञानानुपातिवस्तुशून्यविकल्पगोचरतामात्रेण तस्य दृश्यत्वं, सत्येतरत्वसाध्यापेक्षया च सपक्षत्वमिष्येत, तदा तद्वदेव तुच्छत्वेऽपि सभवति आभिमतमनिर्वचनीयत्वं न नियम्येत । शब्दज्ञाननिरपेक्षश्च खपुष्पाद्यध्यासः प्रागपि दर्शितः । भवतु तत्राप्यनिर्वचनीयत्वं शब्दमात्रानुपातिविकल्पविषये तुच्छत्वम् । तत्र च विवक्षितदृश्यत्वानुपपत्तिस्सिद्धति चेत् ; तदपि न ; शब्दमात्रपतीतबाह्यागमविषयाणामन्येषामपि पूर्वपक्षवाक्यार्थानामनिर्वचनीयत्वाभ्युपगमात् । अस्तु तत्रापि तुच्छत्वम् , किं नश्छिन्नमिति चेन्न ; प्रत्यक्षाद्याभासप्रतिपन्नेऽप्याभासप्रतिपन्नत्वा
आनन्ददायिनी ख्यातिबाधेति । असत्त्वे भानं न स्यादित्यसद्वैलक्षण्यायोगादिति भावः । अथेति । शब्दविषयकज्ञानानन्तरभावि यच्छन्यविषयकं ज्ञानं तादृशसविकल्पकगोचरत्वं शून्यम्या प्यस्त्वित्यर्थः । ननु
शब्दज्ञानजन्यज्ञानविषयत्वेनानिर्वचनीयत्व साध्यते ; तदेवात्र दृश्यत्वमभिमतामित्यत्राह-शब्दज्ञाननिरपेक्ष इति । प्रागपीति । माध्यमिकमतभङ्ग इत्यर्थः । सर्वस्याप्यनिर्वचनीयत्वे ख्यातिबाधाभ्यां सदसद्वैलक्षण्यं न स्यादित्यत्राह -शब्दमात्रेति । यस्य शब्दनिरपेक्षाध्यासो न तस्माद्यावृत्तिः साध्येति भावः । तदपीति । शब्दनिरपेक्षाध्यासाभावादिति भाव । ननु मायिपक्षेऽपि शब्दज्ञानमात्रजन्यविकल्पविषयाणां सत्त्वात् किमर्थं बाह्यागमादिपर्यन्तधावनं कृतमिति
1 मतानिर्व-पा. 2 पेक्षस्य खपु-पा. 'असत्त्वेन न स्था-ग 'प्यस्तीत्यर्थ -ग. 5 शब्दमात्रजन्य-क.