________________
सर. ३] मिथ्यालिगन जगतो मिथ्यात्वसाधने ब्रह्मणोऽपि तत्प्रसङ्गाद्यापादनम्
223
तत्त्वमुक्ताकलापः मिथ्यालिङ्गैश्च सिध्येत किमपि यदि भवेद बाष्पधूमोऽग्निलिङ्गम् ॥ ५० ॥
सर्वार्थसिद्धिः कृत्वा पश्चिममनुवक्ति-मिथ्यालिङ्गैरिति । तत्रानिष्टमाह-भवेदिति । बाष्पधूम:-बाप्पारोपितधूमः । भ्रान्तिसिद्धस्य धूमम्य व्यभिचारदृष्टया वह्निगमकत्वाभावः, न तु मिथ्यात्वादिति चेत् , तत एव यन्मिथ्या न तद्गमकमिति व्याप्तिसिद्धस्त्वदभिमतान्यपि न साध्यं साधयेयुः । साधने वा ब्रह्मण्यपि तानि कथञ्चित्कल्पितानि तदप्यपरमार्थयेयुः । एतेन परोक्तं बाधकमपि प्रतितर्कप्रत्यूढं दर्शितं भवति । अपि च सत्यत्वपक्षे याऽसौ दृग्दृश्यसम्बन्धानुपपत्तिर्वाधिकति सभाव्यते, असत्यत्वेऽपि सा अस्ति वा न वा । आये ताङ्गपञ्चकान्यतमहानर-1 सत्तर्कत्वम् ; तदा चाऽसत्यत्वे साध्ये कथं दृश्यत्वं हेतुरुपादीयेत ? द्वितीये सत्यादन्यस्मिन् खपुष्पेऽपि दृश्यत्वानुपपत्तिर्न स्यात् । मा
आनन्ददायिनी पक्षे । तत एवेति । मिथ्याभूतस्य वह्निगमकत्वाभावादित्यर्थः । एतेनेति । कल्पितहेतुभिर्ब्रह्मणो मिथ्यात्वापादनेनेत्यर्थः । प्रपञ्चमिथ्यात्वाभावे हक्सम्बन्धो न स्यात् , व्यावर्तमानत्वं न स्यादित्यादिबाधकतर्काः । तत्र प्रतितास्तु आरोपितसाधनेन प्रपञ्चस्य मिथ्यात्वे तथाभूतेन दृश्यत्वेन सत्यत्वस्वप्रकाशत्वादिकं ब्रह्मणो न स्यात् अविशेपादित्यादय इति भावः । अन्यतमहानेरिति । विपर्यये पर्यवसानाद्यसम्भवादिति भावः । तदा चेति । विरुद्धत्वादिति भावः ।
1रतर्कत्व-पा. 2 तदा वाऽस-पा. विकिलितहेत्वभिप्रायेण मिथ्या-ग, 4 सानासभ-क.