________________
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
नायक
222
तत्त्वमुक्ताकलापः लिङ्गं जाड्यादिकं चेत्तदपि मम मते घशतः स्यादसिद्ध
सर्वार्थसिद्धिः लिङ्गमिति । तदुभयं दूषयति-तदपीति । अस्मन्मते हि ब्रह्मव्यतिरिक्ता जीवा धर्मभूतज्ञान च म्वयंप्रकाशतया म्वगोचरदृशिनिरपेक्षप्रकाशानि । अतो हेतो गासिद्धिः । दशिजन्यफलं च त्वदनुविधेयाभिमतं प्राकट्यं वा? त्वदभिमतं वद्यगतवित्तिम्फुरणं वा ? दयोरपि विगीते क्वचिदप्यस्माभिरनङ्गीकारात् सार्वत्रिकी स्वरूपासिद्धिः । तवापि स्फुरणस्य वाच्य 'व्याहाराख्य फल विगीत स्यापीति चेत . तर्हि तद्ब्रह्मापि व्याप्नोति । अन्यथा तत्र मौनैकशरणः कथं तद्व्याचिख्यासया प्रवर्तेथाः ? भवन्तु चात्र यानिकानिचिल्लिङ्गानि, तानि सत्यान्यसत्यानि वेति विकल्पे पूर्वत्रापसिद्धान्तादि स्फुटमिति
आनन्ददायिनी शक्यम् ; तथाऽपि स्फुरणलक्षणम्य प्राकट्यस्य ब्रह्मरूपत्वा तत्तत्र न सम्भवत्यात्माश्रयत्वादिति भावः । स्वगोचरदृशिनिरपेक्षप्रकाशा नीति । निरपेक्षप्रकाशाश्च निरपेक्षप्रकाशं च निरपेक्षप्रकाशानि । 'नपुंसकमनपुंसकेन' इति नपुसकस्य शेषः । त्वदनुविधेयो भट्टाचार्यः; व्यवहारे भट्टनय इत्यङ्गीकारात् । वित्तिस्फुरण-वित्तिरूपस्फुरणम् | यद्वा वित्तेर्ज्ञानस्य वेद्य गतत्वेन प्रकाश इति वाऽर्थः । विगीते
शक्यते तथा-ग
त्तत्र-ग.
1 व्यवहारा-पा. 2 स्येति चेत्-पा 5 तीत्यात्माश्रयादिति-ग. 6 गतत्वे प्र-ग.