________________
सरः ३]
स्वरूपासिद्धयाद्यापादनेन दृश्यत्वहेतुदूषणम्
221
सर्वार्थसिद्धिः यदि च हेतुपदजन्यधीविषयताभावेऽपि हेतुपदं तत्र प्रयुज्येत एवमनैकान्तिकादिपदमपि तज्जन्यधीविषयत्वाभावेऽपि तत्र लब्धप्रसरमिति सर्वदोषसंपातः स्यात् । दोषा'भावे कथं दुष्टशब्दस्सार्थ इति चेत् . दृश्यत्वाभावे कथं दृश्यशब्दस्सार्थ इति सममेतत् । किंच दृश्यत्वरहितं दृश्यत्वं निष्प्रकाश स्वप्रकाश वा ? नाद्यः ; स्वोक्तिव्याघातादेव । न द्वितीयः, अब्रह्मत्वात् । अत. कथं दृशिविषयत्व नासादयेत् ? अथ स्यात् दृश्यत्वशब्देन स्वगांचरहशिनिरपेक्षप्रकाशात्यन्ताभावो वा दृशिजन्यफलाश्रयत्वं वा विवक्षितम् ? तदुभयं स्वयंज्योतिषि ब्रह्मणि नास्तीति कथ तत्रातिचार इत्यपसर्पणवाक्यमनुभाषते --
आनन्ददायिनी एतद्वाक्यजन्यदृशिविषयत्वादित्यर्थः । व्याघातं परिहरति-यदीति । दूषयति-एवमिति । अर्थासं स्पर्शिपदप्रयोगस्य साधकत्ववदृषकत्वस्यापि संभवादनै कान्त्यायुद्भावनेन सर्वत्र विजयः स्यादित्यर्थः । नन्वर्थशून्यशब्दप्रयोगस्य निग्रहहेतुत्वात् कथं विजय इति शङ्कते-- दोषाभाव इति । अनुमानप्रयोक्तुरपि तुल्यमित्याह-~-दृश्यत्वा भाव इति । निष्प्रकाशं-प्रकाशरहितम् । स्वोक्तिव्याघातादिति । स्वोक्तिजन्यप्रकाशवत्त्वादिति भावः । अब्रह्मत्वादिति । तव ब्रह्मव्यतिरिक्तस्य जडत्वादित्यर्थः । हशिविषयत्वमिति । दृशेर्विषयस्तत्त्वमित्यर्थः । शब्दपरेण दृशिशब्देनार्थो लक्ष्यते । यद्वा 'इक्कृष्यादिभ्यः' इतीक् प्रत्ययः । तदुभयमिति । यद्यपि प्राकट्यादिकं ब्रह्मण्यपि वक्तु
1 भावेऽपि कथ -पा. काश वा स्वप्र-पा. सस्पर्शपद-क. 4 नैकान्त्योद्भा-क. 5 सर्वश एष-ग. विषय-ग, भावादिति-ग.