________________
220
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
तत्त्वमुक्ताकलाप: मिथ्या चेद् दृश्यताऽस्मिन्ननु विमतिपदेऽप्येवमेषा त्वयेष्टा।
___सर्वार्थसिद्धिः त्वादिविशेषान् साधयतस्ते ब्रह्मणि दृश्यत्वनिषेधो न युक्तः। विद्यत इति पक्षे हेतोरतिचार इति भावः । ब्रह्मणि 'दृश्यत्वं मिथ्याभूतम् ; अतो न तत्रातिचार इति शङ्कते-मिथ्या चेदिति । एतदुपालभतेनन्विति। मिथ्याभूतेनैव हि दृश्यत्वेन ब्रह्मव्यतिरिक्तेऽपि मिथ्यात्वं त्वया साध्यते । न हि दृश्यं मिथ्या, तद्धर्मस्तु दृश्यत्वं सत्यमिति सम्भवति ; तथाऽङ्गीकारे तत्रैवातिचारः, सत्यद्वित्वप्रसङ्गश्चेति भावः । ननु दृश्यत्वे दृश्यत्वं त्वयाऽपि वक्तुं न शक्यम् , आत्मा प्रयादिप्रसङ्गात् । अतम्सत्येऽपि तस्मिन् हेतुवृत्त्यभावान्नातिचारः स्यात् । मैवम् ; दृश्यत्व नाम लिङ्गं दृश्यत्वादिति हेतुपदेन बोध्य, न वा ? आयेऽतिचारस्त्वयैवष्टः । द्वितीये साध्यव्याप्यमनुपस्थापयतो हेतुपदस्य प्रयोगाङ्गतायोगः । न चैवमात्माश्रयादि दोष , परस्परनिर्वाहकसमाधिना दृश्यत्वधर्मस्य तदाश्रयाणां च दृश्यपदेन संग्रहणस्य त्वया स्वीकार्यत्वात् ; अन्यथा दृश्यत्वं न दृश्यमिति स्वोक्तिविषयत्वव्याघातात् ।
___आनन्ददायिनी पद्यानि चतुष्पदीत्यर्थ इत्याहुः । विद्यत इति । ब्रह्मणस्सत्यत्वादिति भावः । तथाऽङ्गीकार इति । सत्यत्वाङ्गीकारे दृश्यत्वे व्यभिचारोऽद्वैतहानिश्चेत्यर्थः । आद्य इति । बोध्यत्वस्यैव दृश्यत्वादिति भावः । द्वितीय इति । तथा सत्यपार्थकत्वादिनिग्रह इत्यर्थः । परस्परनिर्वाहकति । एतादृशधर्मेषु नात्माश्रयदोष इति भावः । व्याघातादिति ।
1 दृश्यत्व तन्मिथ्या-पा. स्तु सत्य दृश्यत्वमिति-पा दोप स्वपरनिर्वाहक-पा. 4श्रय इति-क.