SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ सर: ३] मिथ्यात्वसाधकानुमाने साध्यवद्धतोरपि विकल्पासहत्वनिरूपणम् 219 तत्त्वमुक्ताकलापः तच्चेद् ब्रह्मस्वरूपं भुवनमभिहितं हन्त सब्रह्मकं स्यात् ॥४९॥ इष्टं ब्रह्मापि दृश्यं तव च कथयतस्तस्य जिज्ञास्य'तादीन सर्वार्थसिद्धिः मिथ्यात्वं ब्रह्मणस्सद्वितीयत्वमापादयेत् । अभावरूपं जगन्मिथ्यात्वमसत्यमप्येकदेशिभिरङ्गीक्रियत इति चेत्, तथाऽपि तत्र हेतुवृत्तरतिचरणं "दुस्तरमेव । सत्यमेव जगन्मिथ्यात्वम् ; तच्च ब्रह्मस्वरूपमेवेति नापसिद्धान्तादिदोष इति पराभिप्रेतं कृत्वाऽनुब्रूते-तच्चेदिति । तत्रापि सिद्धसाधनत्वमाह-भुवनमिति । मिथ्यात्वयोगि मिथ्या तच्च मिथ्यात्वं यदि ब्रह्म तदा विगीतं ब्रह्मवदिति साध्यार्थ स्यात् , तत्र न वयं प्रत्याख्यातार इति भावः ॥ ४९ ॥ एवं व्यापकवयाप्यस्यापि विकल्पासहत्वं चतुष्पद्या दर्शयतिइष्टमिति । यदेतन्मिथ्यात्वसाधकतयोक्तं दृश्यत्वं, तद् ब्रह्माणि विद्यते न वति विचारे नेति पक्षस्तावद् दूष्यते । “अथातो ब्रह्मजिज्ञासा" 'तद्विजिज्ञासस्व' 'तद्ब्रह्म' 'आत्मा वा अरे द्रष्टव्यः' 'आत्मन्येवात्मानं पश्येत्' इत्येवमादीनि परश्शतं वाक्यानि पुरस्कृत्य श्रोतव्यमन्तव्य आनन्ददायिनी नापसिद्धान्त इति शङ्कते--अभावेति । मिथ्यात्वस्य भावत्वेऽपि नाद्वैतविरोध इति शङ्कते---सत्यमेवेति ॥ ४९ ॥ __ आनन्तर्यसङ्गतिं दर्शयति-एवमिति । चतुर्णा पदानां समाहारः चतुष्पदी, चतुर्भिः पदैरित्यर्थः । केचित्तु पदशब्दः पद्यपरः । चत्वारि 1 तादि-पा. 'दुस्त्यजमेव-पा. ३ स्यादत्र-पा. 4 इत्यादीनि-पा.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy