________________
218
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
नायक
तत्त्वमुक्ताकलापः
बाधादिकमतिचरणं तद्वहिष्कारपक्षे
सर्वार्थसिद्धिः ध्यता ; विधेयस्य निषेधात् व्याघातश्चेत्यर्थः । न ह्यत्र स्वपरनिर्वाहकनीतिः ; यतः
मिथ्यात्वस्य हि मिथ्यात्वे मिथ्यात्वं बाधितं भवेत् ।
सत्यत्वस्य तु सत्यत्वे सत्यत्वं स्थापितं भवेत् ॥ उत्तरत्रोत्तरमाह-अतिचरणमिति। पक्षबहिर्भावो हि सपक्षतया विपक्षतया वा स्यात् । आये जगन्मिथ्यात्वस्य हि मिथ्यात्वे संप्रतिपन्ने कथ तद्विरुद्धं साध्येत ? द्वितीये मिथ्यात्वस्य सत्यत्वसप्रतिपत्त्या तत्र च हेतुवृत्ततिचरणम् ; यदीदं न 'दृश्य तर्हि साध्यमपि न स्यात् ; साधनाधीनदृग्विषयत्वायोगात् । अपि च ब्रह्मवदिह विपक्षभूतं
आनन्ददायिनी सत्यत्वस्यति । कथं तद्विरुद्धमिति । जगन्मिथ्यात्वस्य मिथ्यात्वं नाम जगति तदभावः । तदवधारणे बाधितं कथं साध्येतेति भावः । अतिचरणं-व्यभिचारः । हेतोरगमनान्न व्यभिचार इति शङ्कतेयदीति । दृश्यत्वाभावेऽनुमितिविषयत्वमपि न स्यादिति परिहरतितहीति । अपसिद्धान्तमप्याह-अपिचेति । ननु भावाद्वैतपक्षे
1 दृश्य तदा साध्य-पा.