SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ सरः ३] जगन्मिथ्यात्वस्य स्वरूपत इव धर्मनोऽपि विकल्पासहत्वप्रपञ्चनम् 217 तत्त्वमुक्ताकलापः साध्यं मिथ्या न वा ते द्वित निष्फलत्वादिदोषा दाद्यं हीष्टं समापि प्रसजति भवतस्सत्यभेदः परस्मिन् । पक्षीकारेऽस्य सर्वार्थसिद्धिः म्वरूपविकल्पेन दूषितं मिथ्यात्वं धर्मतोऽपि विकल्पासहमित्याह -साध्यमिति । ते--ब्रह्मव्यतिरिक्तविश्वमिथ्यात्ववादिनः । द्वितयं-मिथ्यात्वस्य मिथ्यात्वं तत्पनिमटं सत्यत्वं च । अनयोरनौचित्य क्रमात् कारणमाह-निष्फलत्वादिदोषादिति । आदिपदमपसिद्धान्तार्थम् । नैष्फल्य सिद्धसाधनतया विवृणोति-आद्यमिति। अपसिद्धान्तमुद्घाटयति-प्रसजतीति। पुनरपि साध्यमेतन्मिथ्यात्वं पक्षीकृत न वेति विकल्पे पूर्व दूषयति-पक्षीकार इति । अत्र हि प्रामाणिकमिथ्यात्वं पक्षीकृत्य तस्य मिथ्यात्वसाधने बाधः ; अन्यस्य तु सिद्धसा आनन्ददायिनी पौनरुक्त्यशङ्कां परिहरन् पूर्वसङ्गत्याऽऽह-स्वरूपेति । मिथ्यात्वं हि सत्यं मिथ्या वेति सत्यत्वमिथ्यात्वरूपमिथ्यात्वनिष्ठधर्ममुखेनापीत्यर्थः । ननु सत्यत्वं सत्यं न वेति विकल्पक्षोभे यः परिहारः सोऽत्रापीत्यत्राह
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy