SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ 216 सव्याख्यसवाथेसिद्धिसहिततत्त्वमुक्ताकलापे [नायक तत्त्वमुक्ताकलापः विश्वं 'हीदं मृषा नस्तदितरवपुषा त्वन्मतारोपितैश्च स्यादेवं दूरतस्ते ध्रुवमपसरतोऽप्युक्तदोषानुषङ्गः ॥४॥ सर्वार्थसिद्धिः अतस्सिद्धसाध्यत्वं चाह-विश्वमिति । हिशब्द आगोपालपण्डितं दुरपह्नवां प्रसिद्धिं द्योतयति। तदितरवपुषा-स्वेतरस्वरूपतयेत्यर्थः । न हि स्वप्रतियोगिकान्योन्याभाववत्त्वं वा स्वेतरतादात्म्यं वा कस्यचिदनुबोभूयामहे शोधूयामहे वा। परसिद्धान्तकल्पिताकारवत्तया च मिथ्यात्व सिद्धमित्याह-त्वन्मतारोपितैश्चेति । ब्रह्माविद्या विपरिवर्तत्वानिर्वचनीयत्वबाध्यत्वैरिति शेषः। चकारादसंसृष्टसंसृष्टतयेत्यपि गृह्यते । एवमनिर्वाच्यत्वादिविकल्पकोटयन्तरेष्वपि तत्तद्विकल्पावतारेण बाधापसिद्धान्तसिद्धसाघनत्वादिदोषाणामनतिक्रमणीयत्वं प्रच्छन्नबौद्धोपालम्भव्याजेन छात्रान्प्रतिबोधयति --- स्यादिति । ध्रुवं-निश्चितम्, प्रसञ्जकानामङ्गपञ्चकसंपत्तेरिति भावः ॥ ४८ ॥ आनन्ददायिनी ब्रह्माविद्याविपरि वर्तेत्यादिना। नन्वनिर्वाच्यत्वमेव मिथ्यात्वमस्त्विति यदि ब्रूयात्तत्राह-एवमिति । तत्तद्विकल्पः-सदसत्त्वेनानिर्वाच्यत्वं ब्रह्मशून्यान्यत्वेन वा निर्वस्तुमशक्यत्व अन्यस्यान्यात्मना निर्वक्तमशक्यत्वं वेति विकल्प सत्त्वेन निर्वाच्यत्वात् बाधः । ब्रह्मशून्योभयभिन्नत्वेन निर्वाच्यत्वात् स्वमतेऽपसिद्धान्तः , अन्त्ये सिद्धसाधनमिति भावः । त इति संबोध्याभिधानादाह-छात्रानिति ॥४८॥ 1 हीष्ट मृषा-पा. 2 विवर्त-पा.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy