SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ सरः ३] पराभिमतमिथ्यात्वस्य प्रपञ्चे साधनासभवोपपादनम् 215 तत्त्वमुक्ताकलापः भवदनभिमतोऽन्यात्मना वेद्यतादिः। सर्वार्थसिद्धिः हारव्यवस्थापकलक्षणरूपकेवलव्यतिरेकिन्यायेन साध्यस्य पक्षकदेशसिद्धस्यैवाभिव्याप्तया साधनान्न साध्याप्रसिद्धिरिति । अत्र तु सिद्धा चासाविति नप्रहाणेनोत्तरम् ; पक्षे सर्वत्र सिद्धैवेत्युक्तम् ; तथाऽपि मिथ्याशब्दानिमित्तं किञ्चित्त्वयाऽङ्गीक्रियते, तदेव साधयाम इत्यत्राह-- भवदनभिमत इति । परे हि रजतादेशुक्त्याद्यात्मना वद्यत्वं वा रजतादेरतत्संसृष्टस्य तत्ससृष्टतया भातत्वं वा बाध्यव्यवहारहेतुधीविषयत्व वा मिथ्याशब्दनिमित्त सिद्धान्तयन्ति । न चैतत् त्वया साध्यम् ; अन्यथाख्यातेरख्यातेवा स्वीकारप्रसङ्गात् ; तथा चापसिद्धान्तः । स्वदेशादौ च विश्व सत्यं स्यादिति विवक्षितविपरीतसाधनापत्तिः ; आनन्ददायिनी सिद्धेऽपि 'पृथिवी इतरभिन्ना 'इत्यत्र पक्षभिन्नदृष्टान्ताभावाद्वयतिरेकित्वं पूर्वमसिद्धा चेति पदच्छेदः, इदानीं सिद्धा चेतीति भावः । अन्यथाख्यातेरिति । अन्यस्य चान्यथाऽन्यात्मना च भानेऽन्यथाख्यातित्वम् , अससर्गाग्रहे चाख्यातित्वमिति भावः । स्वदेशादौ चेति । अत्र सत्त्वस्य बाधकामावादिति भावः । परसिद्धान्तकल्पिताकारमेवाह 1 नात्मना-पा. तत्र-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy