SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ 214 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे नायक तत्त्वमुक्ताकलापः सिद्धा चासौ परेषां सर्वार्थसिद्धिः षष्ठेऽपि सिद्धसाध्यता। 'न तु विगीतं ब्रह्मस्वरूपं, न च तुच्छम् ; अन्यदपि केनचिद्विशेषशब्देनोपस्थापयितुं शक्यं वा न वा ? शक्य चेदस्माभिरपि विशेषतो दूषयितुं शक्यम् । अशक्यं चेत् , अव्यपदेश्ययत्किञ्चिद्धर्मवत्त्वं साध्यं स्यादिति कस्तत्र विमन्यते। अतो यत्किञ्चिदेवैतदिति । किंच विगीतप्रयोगेषु सर्वेषु यत्र कुत्रचित् पूर्वसिद्धमेव पक्षे साध्यम् ; इह तु ब्रह्मणि तुच्छे वा न साध्यग्रहः, तयोविपक्षत्वात् ; नच विगीते, तस्य संदिग्धसाध्यत्वात् । सपक्षस्तु शुक्तिरजतशब्देन प्रदर्शयितु न शक्य इत्युक्तम् । नच परासिद्धस्साध्यावस्थो दृष्टान्तः स्यात् । तत्साधनं च दूषयिष्यते । तदसौ त्वदभिमता सदसद्विलक्षणता परेषां सर्वत्रासिद्धतया पक्षे दुस्साधेत्यभिप्रयन्नाहअसिद्धा चेति । ननु घटादौ तावदसद्विलक्षणत्व संप्रतिपन्नम्, सद्विलक्षणत्वमपि पटादिवैलक्षण्याब्रह्मवैलक्षण्याद्वा। अतो भेदव्यव आनन्ददायिनी षष्ठेऽपीति । ब्रह्मत्वाभावतुच्छत्वाभावयोः प्रपञ्चे समुच्चितत्वादित्यर्थः । विगीतं विवादाध्यासितं पक्ष इत्यर्थः । विगीतप्रयोगेषु अन्वयिप्रयोगेषु । न च विगीत इति । संदिग्धसाध्ये पक्षे इत्यर्थः । सपक्षस्त्विति । शुक्ति रजतत्वस्यासिद्धरित्यर्थः । ननु प्रसाध्याङ्गको दृष्टान्तो भवत्वित्यत्राह-साधनं चेति । ननु घट एव साध्यस्य प्रसिद्धत्वे व्यतिरेकित्वं न स्यादित्यत्राह-अतो भेदव्यवहारेति । यथा घटादावितरभेदे 1 न हि विगी-पा. शक्यं न वा-पा. 3 रजतस्यासिद्धे-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy