________________
सर.३] साध्यमिथ्यात्वरूपसदसद्विलक्षणत्वस्य सप्तधा विकल्पनपूर्वक निरासः
213
सर्वार्थसिद्धिः सत्त्वात्यन्ताभावसमुदायवत्त्वं वा, सतोऽसतश्च कुतश्चिव्यावृत्तत्वं वा, सदसच्छब्दगोचरसर्वान्यत्वं वा, ब्रह्मतुच्छव्यावृत्तत्वं वा, ब्रह्म स्वतुच्छत्वसमुदायशून्यत्वं वा, तदुभयात्यन्ताभावसमुदायो वा, अन्यद्वा किंचित् । आये व्याह'तत्वम्, 'परस्पर विरोधे हि न प्रकारान्तरस्थितिः' इति न्यायात्, न ह्यत्रानुष्णाशीतवद्गतिः, कोट्यन्तरस्यात्यन्तानुपलम्भात् । न च तत्राप्युष्णानुष्णविकल्पे कोट्यन्तरं समस्ति । द्वितीये सिद्धसाध्यता, सतामेव परस्परमसद्भयश्च व्यावृत्तत्वात् । तृतीयेऽपि स एव दोषः । अस्ति हि सत एवैकस्य तत, एकस्य सर्वसदसद्रूपत्वाभावात् । अत एव न चतुर्थः ; न हि वयं ब्रह्मस्वरूपं वा निरुपाधिकतुच्छं वा विश्वं ब्रूमः ; विरुद्धार्थान्तरता च, खरशृङ्गे खपुष्पाद्यन्यास्मि स्तद्भावात् । एवं पञ्चमेऽपि, खर शृङ्गादौ ब्रह्मणि ब्रह्मत्वतुच्छत्वयोरसमुच्चितत्वात् ।
आनन्ददायिनी इति । व्याहतत्वमिति । सत्त्वाभाववताऽसत्त्वनियमादसत्त्वाभाववत सत्त्वनियमात्तदुभयाभावद्वयमेकत्र व्याहतमिति भावः । कोटयन्तरस्येति । अनुष्णाशीतम्य पृथिव्यादेः संभवादिति भावः । ननु तयुष्णानुष्णविकल्पऽपि विरोधो न स्यादित्यत्राह-न चेति । सतामेवेति । सतः पटात् घटः, सतो घटाच्च पट इति परस्परमित्यर्थः । तदेवोपपादयति-एकस्येति । व्यासज्ज्यवृत्त्यत्यन्ताभाववदन्योन्याभावस्यापि तादृशस्सभवादिति भावः । विरुद्धार्थान्तरता चेति । तुच्छत्वेऽपि जगतः शशशृङ्गान्यत्वे सति ब्रह्मान्यत्वस्य सत्त्वात्तच्छत्वं सिद्धान्तविरुद्धं सिध्येदित्यर्थः । एवमिति । विरुद्धार्थान्तरतेत्यर्थः ।
1 तता, पर-पा. 2 विरोधे तु न-पा. न चात्रा-पा. + एवैकैकस्यपा. स्तथाभावात्-पा. ' शृङ्गे ब्रह्मणि च ब्रह्मत्व-पा. 7 'ननु' इति ग कोशे नास्ति. 8 तादृशस्य स-ग.