________________
228
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
सर्वार्थसिद्धिः नापि चतुर्थः, उभयथाऽपि स्वरूपलाभे विशेषनिर्धारणवैफल्यात. अनिर्धारितेऽप्यन्यतरकोटेरनपायात् । न पञ्चमः, परस्परविरुद्ध सर्वत्रानुपपत्तिरहितान्यतरकोटेर्यथाहमवशेषणीयत्वात् । दूषिता च संबन्धपक्षानुपपत्तिः; दर्शितश्चासंबन्धपक्षे दोषः । यदि चैतादृशस्तोऽनुग्राहकः, स तर्हि यत् प्रकाशते तन्मिथ्या यथा ग्राह्यग्राहको तथा संविदित्यादिसंविन्मिथ्यात्वसाधकानुमानेष्वपि सुलभः, सत्यत्वस्वप्रकाशत्वादिधर्मसंबन्धानुपपत्तेस्त्वत्प्रलापप्रस्थित्यैवाकुण्ठितप्रसरत्वात् ॥
मिथ्यात्वेन च दृश्यत्वं स्वतःसंबन्धि साधयन् । अप्रामाण्यस्वतस्सिद्धिमुद्गिरत्यनया गिरा ॥ ५० ॥
इति दृश्यत्वानुमानभङ्गः
आनन्ददायिनी वक्तव्यं स्यादिति भावः । दूषितेति । सत्यत्वेऽपि सम्बन्धानुपपत्तिः परिहतेत्यर्थः । दर्शितश्चेति । हेतुपदजन्यधीविषयत्वाभावेऽपीत्यादिनेत्यर्थः । तस्याभा'ससाम्यमाह-यदि चेत्यादिना । तथा च माध्यमिकमतावतार इति भावः । सत्यत्वेति । व्यावहारिकसत्त्वं प्रातिभासिकसत्त्वं चादायान्यथासिद्धिवत् सांवृतिकसत्त्वस्वप्रकाशादिकमादायान्यथासिद्धिसम्भवादित्यर्थः । प्रस्थितिः-मार्गः। मिथ्यात्वेनेति । मिथ्याभूतं दृश्यत्वं स्वतः स्वरूपाभावेऽपीति चेत् स्वयं स्वसम्बन्धिसाध्यं प्रपञ्चस्य साधयतीति वचन स्वस्याप्रामाण्यमेव प्रतिपादयतीत्यर्थः । अप्रामाण्यस्य स्वतः सिद्धिः स्वेन वचनेनैव सिद्धिः, स्वयमप्रमाणमिति यावत् ॥ ५० ॥
दृश्यत्वानुमानभङ्गः
1 भावसा-ग
दृश्यत्व स्वरू-ग.