________________
सरः ३] मिथ्यात्वानुमाने पुनरप्यन्येषां साध्यविकल्पमेदानामुद्भावनपूर्वक निरसनम् 211
तत्वमुक्ताकलापः मानं निखिलमपि यतस्तद्विधानकतानम् ॥१७॥
__ सर्वार्थसिद्धिः यस्तु वस्त्वन्तराभावमपरिच्छित्तिमिच्छति । कथितोऽसौ कथाऽनहः क्षीबोन्मत्तैडमूकवत् ॥ किञ्च संख्यापरिच्छेदराहित्यं किं न दृश्यते ।
मानबाधाद्यदि समं निर्बाधेऽर्थे स्थितिः स्थिता ॥ पराभिमतैरुपमानार्थापत्त्यादिभिरपि न जगद्वाधः ; तेषामन्तर्भावबहिर्भावयोरुक्तानतिरिक्तशक्तित्वादिति । तदेतत्सर्वमभिप्रयन्नाह-मानमिति ।
आनन्ददायिनी तद्विधेयमाधेयं शेषं न्यून सर्वमित्यर्थः। ननु लाघवाद्वस्त्वन्तराभावमात्रमेवापरिच्छिन्नत्वमित्यत्राह-यस्त्विति । सर्वस्याभावे प्रमाणस्याप्यभावेन ब्रह्मणो मेयस्याप्यभावात् प्रमातुः सर्वस्याप्यभावादिति भावः । किं चासंख्यातत्वं संख्यापरिच्छेदाभावः क्षणलवादिनाऽप्युच्यते ; न तत्र संख्यान्तराभावः एकत्वादीनां सत्त्वात् । तत्र चेदन्यथावर्णनं तदा तथा प्रकृतेऽप्यस्तीत्याह-किंचेति । एकत्वादिग्राहकमानसत्त्वेन तदभावो न संख्यापरिच्छेदाभाव इत्यन्यथानयनमिति शङ्कतेमानेति । तुल्यत्वेन परिहरति-सममिति । स्वारसिकबाधशून्यार्थगोचरमानस्य प्रपञ्चेऽपि सत्त्वात् तेन बाधस्य तुल्यत्वात् न वस्त्वभावमात्र परिच्छेद इति भावः । निर्वाधेऽर्थे स्थितिः स्थितेति । प्रमाणान्तराविरुद्धार्थविषयकतया श्रुतेरवस्थापनं स्वीकर्तु युक्तमित्यर्थः । स्थिता-सिद्धत्यर्थः । अन्तर्भावबहिर्भावयोरिति ।
1 सर्वस्याप्यभावेन मेयस्य ब्रह्मणोऽप्यभावात् प्रमातुस्स्वस्याप्यभावादिति भावः-ग. 2 एकत्राग्राहक-ग.
14*