________________
210
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
सर्वार्थसिद्धिः वर्तित्वम् ; तथा न वस्त्वन्तरसद्भावो वस्तुपरिच्छेदः, अपि तर्हि परिमितवस्त्वन्तरप्रकारित्वम् ; यथा गौः शुक्लो गच्छतीत्यादौ। न तथाऽत्र, “ सर्वं खल्विदं ब्रह्म" " पुरुष एवेदं सर्वम्" इति विश्वरूपतया व्यपदेशात् । ततश्चायं सर्वाविरुद्धस्संग्रहः
अविधेयमनाधेयमशेषमधिकं समम् । नेति वस्तुपरिच्छेदाभावः स्याद्विश्वदेहिनः॥
आनन्ददायिनी कालाभावः, एवं देशापरिच्छेदोऽपि । तथा वम्त्वपरिच्छेदोऽपि सर्ववस्तुविसदृशत्वं सर्ववस्तुविशेषणकत्वं वा, न तु वस्त्वन्तराभावोऽन्यथाबैरूप्यप्रसङ्गात् । वस्त्वन्तरस्याभावे वस्तुपरिच्छेदम्यैवासिद्धया निषेध्याप्रसिद्धस्वैविध्याभावप्रसङ्गाच्च । न च स्वसमानवस्त्वन्तराभाव एव वस्त्वपरिच्छेदो ब्रह्मण इति वाच्यम् । तथा सति ब्रह्मान्तराभावमादायाप्युपपन्नतया २ मिथ्यात्वासिद्ध.। न च पारमार्थिकवस्त्वन्तराभावस्स इति वाच्यम् , तथात्वे मानाभावात् । पारमार्थिकत्वेन प्रपञ्चग्राहिप्रमाणेबर्बाधाच्चाबाधितगतिसंभवे तथा निर्बन्धायोगाच्चेति भावः । सर्वं खल्विदमिति । तथा च सर्ववस्तुविशेषणकत्वं ब्रह्मण इति भावः । ननु सर्ववस्तुविशेषणकत्वं यथाकथंचित् कालादेरपीति चेत्तत्राह -- ततश्चायमिति । वस्तुपरिच्छेदाभाव इति । न स्वरूपण वस्त्वन्तराभावः परेणापि वक्तुं शक्यः ; किं तु पारमार्थिका कारण । तथा च सर्वप्रमाणाविरोधेन सर्वप्रमाणानुगुण्येन चाविधेयत्वादिना वस्त्वन्तराभावो वाच्य इति भावः । तत्र हेतुः -- विश्वदहिन इति । 'विश्वस्यं तच्छरीरत्वादेवं
1शुक्ला गच्च-पा. 2 मिथ्यात्वाभावसिद्धेः-ग. कत्वाकारेण-ग. ' स्य शरी-ग.