SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ सरः३] मिथ्यात्वानुमाने बाधस्य माध्यत्वे तद्विकल्प्य सिद्धसाध्यत्वाद्यापादनम् 209 सर्वार्थसिद्धिः स्तदुक्तो बाध इति चेत , त्वदुक्तोऽप्येवमेव । व्यावहारिकप्रमाणतो मदुक्तसिद्धिरिति चेत् , तदुक्तसिद्धिरपि तथैव । 'सांवृतादिसमाख्यावैषम्यं चाकिंचित्करम् । नापि द्वितीयः ; प्रत्यक्षेण तावदस्तीत्येव प्रपञ्चः प्रतीयते। यदा च कुत्रचिन्नास्तीति मनुष, तदाऽपि तत्रैव तदभावस्य सत्यत्वम्, अन्यत्र च तत्सत्यत्व मध्यक्षयामः। आह च न्यायभाष्यकार:-सत्सदिति गृह्यमाणं तथाभूतमविपरीतं च तत्त्वमिति, असञ्चासदिति गृह्यमाणं तथाभूत विपतिं च तत्त्वमिति । अनुमानं त्वद्याप्यलब्धजीवितम् । आगमिकस्तु निषेधो विध्यनुरोधेन नेतव्यः ; अन्यथाऽतिप्रसङ्गात् । वाचारम्भणादिशब्दाश्च द्रव्यान्तर4निरासपरा दर्शिताः। नन्वनन्तपदेनासंकोचाद्वस्तुपरिच्छेदराहित्यमपि गृह्यते ; सति वस्त्वन्तरे तत्परिछेदाभावो दुर्वच इति चेन्न ; यथा देशकालसद्भावो न कस्यचिद्देशकालपरिच्छेदः, किंतु परिमिनदेशकाल ___ आनन्ददायिनी सांवृतादीति । ननु व्यावहारिकं सत्यत्वं प्रातिभासिकं सत्यत्वमिति मायिभिरभ्युपगतम् ; माध्यमिकैस्तु सांवृतिकमेकमेव सत्यत्वमभ्युपगतामति कथं समाख्याभेदमात्रमर्थभेदसत्त्वादिति शङ्कां निवारयत्यादिशब्दः । अयं भावः - सर्वव्यवहारावैषम्यं समानत्वात् ' इति सूत्रभाष्यटीकायां शून्यता वस्तुतोविशिष्टा तथापि शुक्तिकादौ प्रातीतिकमन्यत्र सांवृतिकमिति तदपि किंचित् सांवृतिक मर्थक्रियाकारीति वैषम्याङ्गीकारदर्शनात् तुल्यतेति । यथेति । ब्रह्मणस्त्रिविधापरिच्छेदमध्ये कालापरिच्छेदो नाम कालेन परिमितत्वाभाव एव, न तु ___1 सवृतादि-पा. 2 मप्यध्यक्ष-पा. 3 " यथाभूतमविपरीत' इति न्यायभाष्यपाठः. 4 निषेधपरा-पा. सति तु वस्त्व-पा. कार्थक्रिया-ग. SARVARTHA VOL. IV 14
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy