________________
208
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
तत्त्वमुक्ताकलापः नासौ साध्योऽत्र
सर्वार्थसिद्धिः वक्तम् । तत्राह-नासाविति । अयं भावः-किमत्र यस्यकस्याचित् पुरुषस्य यत्रकुत्रचिद्देशे काले वा बाधोऽस्तीत्येतावन्मानं साध्यम् ? उतानेन प्रमाणेनास्य बाधो दृश्यत् इति। न प्रथमः, एतावन्मात्रसाधनस्य ब्रह्मण्यपि सुवचत्वात् । शक्यं हि साहसिकस्य भासमानत्वमात्रेण सर्वमिथ्यात्वं साधयितुम् । किं च ब्रह्मव्यतिरिक्तकृत्स्नपक्षीकारेण बाधं साधयतस्तद्वाहिभूतपुरुषदेशकालानामभावात् कस्यचित्पुरुषस्येत्यादिनिर्देशो निर्विषयः । तदन्तर्भूतपुरुषदेशकालविवक्षया प्रयोगे तु विद्यमानेऽप्यविद्यमानभ्रमवतः कस्यचित् कचित् कदाचित्तत्र तन्नास्तीति धीसंभवात् सिद्धसाध्यता । मन्यते च माध्यमिकः सांवृतेन मानेन सर्वमिथ्यात्वम् ; तथा तस्य विश्वबाधकज्ञानं जातमिति च वयमपि विद्मः । अप्रमाणमूलत्वादपारमार्थिक
आनन्ददायिनी तम् , उपाध्यभावादित्यत्राह-अयं भाव इति । ननु बाधो नाभावबुद्धिमात्रं, अपि तु प्रत्येतव्यस्येत्यत्राह-किं चेति । किमत्र पक्षबहिभूतः पुरुषादिविवक्षितः, उत तदन्तर्भूतस्तत्राद्य आह-तद्वहिर्भूतति । तथा च बाध इति भावः । केचित्तु साध्याप्रसिद्धिमाहुः । द्वितीय आहतदन्तर्भूतेति । तथा च मिथ्याभूतदेशकालादौ मिथ्याभूतपुरुषकर्तृकस्य बाधस्य प्रमात्वं न संभवतीति भ्रान्तिरूपो वाच्यः, तादृशस्य सिद्धत्वात् सिद्धसाधनमिति भावः । तदेव सिद्धसाधनमुपपादयति--मन्यते चेति ।
1 तत्र नास्तीति-पा. 2 तथा च तस्य-पा.