SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ सरः ३] मिथ्यात्वानुमाने दृश्यत्वहेतोरप्रयोजकत्वसिद्धसाधनत्वाचापादनम् 207 तत्त्वमुक्ताकलापः वाधश्चास्मिन्नुपाधिस्तमधिगतदशदेशकाला युपाधौ सर्वार्थसिद्धिः दृश्यत्वस्याप्रयोजकत्वमाह-बाधश्चेति । मिथ्याशब्दवाच्यत्वे हि प्रतिपन्नोपाधौ बाधितत्वं प्रयोजकम् । अत एव न तदेव तदित्यनुपाधित्वम् । ननु बाध एवात्र साध्यस्स्यात् , तत्र च नोपाधिश्शक्यो आनन्ददायिनी भावाभावान्यतरनिषेधस्यान्यतरत्वनियमादिति भावः । ननु भावाभावयोः समानसत्ताकयोरेव विरोधो न भिन्नसत्ताकयोः, शुक्तिरूप्यादौ तथा दर्शनात् । तथा च स्वान्यूनसत्ताकस्वात्यन्ताभावसामानाधिकरण्यसाधनेन बाध इति चेन्न । तथा सति ब्रह्मस्वरूपज्ञानं अविद्यानिवर्तकं न स्याद्विरोषिविषयकत्वाभावात् । तथा हि-न तावत् स्वरूपज्ञानं निवर्तकं, सर्वदा सत्त्वात् । नापि प्रपञ्चाभावविषयकं, भिन्नसत्ताकाभावस्य विरोधित्वाभावे तज्ज्ञानस्य विरोधिविषयकत्वाभावेन निवर्तकत्वाभावात् । न चाभावत्वप्रकारकत्वेन निवर्तकत्वं, घटाभावज्ञानस्यापि निवर्तकत्वप्रसङ्गात् । न च निवर्त्यप्रतियोगिकत्वे 'ज्ञानं निवर्तकं, प्रातिभासिकघटाभावज्ञानात् घटस्य निवृत्तिप्रसङ्गात् । न चान्यूनसत्ताकाभावज्ञानं निवर्तकं ; तथा सति तादृशाभावस्य विरोधित्वे तत्सामानाधिकरण्यं न स्यात् , अविरोधित्वे घटतदभावयोः सामानाधिकरण्यप्रसङ्गः । प्रातिभासिकसर्पज्ञानेन प्रातिभासिकरज्जनिवृत्त्यभावापाताच्च । तस्मान्नवीनमतमप्यपास्तमित्यभिप्रायेण साधनायोगाच्चेति चशब्दप्रयोग इति भावः । ननु नासौ साध्य इत्ययु 1 ज्ञाननिवर्तक-क.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy