________________
206
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[नायक
__ सर्वार्थसिद्धिः - नहि वस्तु विकल्प्येत न विरुद्धसमुच्चयः । न चोभयपरित्यागो विहतिं जहतः कचित् ॥
न हि तदेव तत्रैव नदानीमेव विद्यते न विद्यते वेति विरुद्धानियतरूपता, ईशस्यानियमस्य जैनैरप्यनङ्गीकारात् । नच तदङ्गीकृतविरुद्धसमुच्चयः, स्वपरपक्षसमुच्चये सर्वकथोच्छेदापत्तेः । अत एव नोभयमिथ्वात्वेनोभयत्यागः, विरुद्धान्यतरविधिनिषेधयोरितरानिषेधविधिनान्तरीयकत्वात् , स्वात्यन्ताभावसामानाधिकरण्यसाधनायोगाच्च । अस्तु वा कश्चिन्मिथ्याशब्दार्थः । तत्र
आनन्ददायिनी दृश्यत्वहेतोरिति शेषः । यद्यपि संयोगादौ सम्बन्धान्तरण वयादौ वा सिद्धसाधनमपि, तथाप्येतद्वयावर्तनाथ विशेषणान्तरदानेन परिहारस्संभवतीति भावः । वस्तुविकल्पः-भावस्वैव कदाचिदभावत्वम् ; समुच्चयो हि भावाभावयोरेकदा साहित्यम् । विहतिं व्याघातं परित्यजतस्तव भावस्यैवाभावत्वं भावाभावयोस्साहित्यं उभयराहित्यं वा कचिदुपलब्यमित्यर्थः । कुतो न दृष्टमित्यत्राह-न हीति । इदमुपलक्षणम्एकम्यैव प्रतियोगितदभावरूपत्वमिति न हीत्यर्थः । ईदृशस्येति । जैनैः सत्त्वासत्त्वाङ्गीकारेऽपि भावाभावयोरेकाश्रयत्व नाङ्गीकृतमित्यर्थः। ननु सत्त्वासत्त्वाङ्गीकारे इदमप्यङ्गीकृतप्रायमेव । असत्त्वस्य सत्त्वाभावत्वादिति चेत्, न, तस्य स्वरूपत्वेन भावाभावरूपत्वानभ्युपगमात् । यदि विरुद्धसमुच्चयाङ्गीकारात्तन्नयाय उच्येत, तत्राह-न चेति । विरुद्धेति ।
। अतो नोभय-पा.