SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ सरः३] दृश्यत्वहेतुकानुमाने साध्यस्य विकल्पनपूर्वक निरासः 205 mmmmm तत्त्वमुक्ताकलापः त्तत्रैवेति त्वशक्यं कचिदपि न तथा हस्ति सिद्धान्तसिद्धिः। __ सर्वार्थसिद्धिः निरनिष्टेऽनिष्टमुल्लेढि । अत एव हि विपर्यये पर्यवस्यति । ननु स्वात्यन्ताभावदेश एव विदितमिति साध्यं स्यात् ; तथा च न सिद्धसाध्यतेत्यत्राह-तत्रैवेतीति । अत्र ह्यवधारणं स्वदेशव्यवच्छेदार्थम् ; तदिद स्वदेशसदसद्भावयोरशक्यमेव । स्वदेश एव स्वात्यन्ताभावदेश इति प्रस्तुतप्रतिज्ञाभिप्राय इत्यत्र व्याप्ति ग्रहणाभावमाह-क्वचिदपीति । यत्र क्वचिद्देशे काले वा जागरस्वप्नावस्थयो र्व्यावहारिकप्रातिभासिकयोर्वेत्यर्थः । शुक्तिरूप्योदाहरणं त्वसिद्धिप्रदर्शनेन प्रत्युक्तम् । एतेन स्वात्यन्ताभावप्रदेशवर्तित्वं साध्यमित्यपि 'निरस्तम् । सिद्धसाध्यत्वपरिहारेऽपि व्याघातादेरपरिहार्यत्वात् । आनन्ददायिनी स्वात्यन्ताभावदेश आरोपस्य संप्रतिपन्नत्वादिति भावः । निरनिष्ट इति । आनिष्टं धूमाभावः तच्छून्ये धूमाभावाद्यनिष्टं प्रसञ्जयतीत्यर्थः । नन्विति । नन्वाकाशादेरवृत्तिपदार्थस्य तथात्वं संप्रतिपन्नमित्यंशतः सिद्धसाधनमिति चेन्न । वेदान्तिमतानुसारेण साधनान्नांशतः सिद्धसाधनमिति भावः । स्वदेशसदसद्भावयोरिति । स्वदेशसत्त्वे तत्रात्यन्ताभावस्य विरोधात् तत्र प्रतीयमानस्य तत्र सत्त्वात् बाधः । तदबाधे व्यवच्छेद्याप्रसिद्ध्या व्यवच्छेदविशिष्टसाध्यव्याप्तिग्रहो न स्यादित्यर्थः । स्वदेश एवेति । स्वदेशमात्रवृत्तिस्वात्यन्ताभाववत्त्वं विवक्षितामिति वक्ष्यमाणात् भेदः । असिद्धिप्रदर्शनेनेति । ह्यस्ति दृष्टान्तसिद्धिः-पा. ग्रहाभाव-पा. प्रत्युक्तम्-पा. ' व्यवच्छेदानिर्विशिष्ट-क.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy