SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ 204 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे नायक तत्त्वमुक्ताकलापः स्वात्यन्ताभावदेशे विदितमिति यदि स्थाप्यमिष्टं कचित्त सर्वार्थसिद्धिः तदयोगात् । अप्रमितस्य चानुदाहर्तव्यत्वात् , अन्यथाऽतिप्रसङ्गात् । भ्रान्तिज्ञाने बुद्धितदाकारावसत्याविति तदाकारनिदर्शनोपपत्तिरिति चेन्न ; बाधाभावात् ; परानभ्युपगतेश्च । नवमोऽप्यत्यन्ताप्रसिद्धेरपास्तः । अपाकरिष्यते चानिर्वचनीयोत्पत्त्यादिः । नापि दशमः, सत्येषु शुक्तयादिषु अन्यतमस्यैव कया चिद्विवक्षया शुक्तिरजतव्यवहारविषयत्वात् ; अन्यथा वर्णक्रमनिर्देशवन्निरर्थकत्वापातात् ; तथा चाश्रयहीनमुदाहरणमिति न कथञ्चिदपि व्याप्तिसिद्धिारति ॥ ४६॥ पुनस्साध्यविकल्पे कोट्यन्तरमनुवक्ति-स्वात्यन्तेति । स्थाप्यंसाध्यम् । तत्र सिद्धसाधनतामाह-इष्टमिति । क्वचित्-योग्यस्थले । सर्वेऽपि हि पदार्थास्सामग्रीविशेषैः स्वात्यन्ताभाववत्स्वध्यस्यन्ते । तत एव हि सर्वत्र पूर्वपक्षोदयः ; आहायलिङ्गजा च तर्कघीस्सार्वत्रिकी आनन्ददायिनी भ्रान्तिज्ञाने भ्रान्तिरूपज्ञाने । अनिर्वचनीयोत्पत्त्यादिरित्यादिशब्देन प्रतीत्यादिविवक्षितः । कयाचिद्विवक्षया परस्परात्मना प्रतीत्येत्यर्थः । अन्यथेति । विवक्षाविशेषेण सविषयत्वाभावे गकार-धकार मकारयकारेत्यादिप्रत्ययरहितवर्णनिर्देशवदर्थशून्यं स्थादित्यर्थः ॥ ४६ ।। पूर्वसङ्गत्याऽऽह-पुनरिति । तत एव हीति । उभयोः पूर्वपक्षसिद्धान्तयोः तात्विकत्वासंभवादिति भावः । आहार्येति ।
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy