SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ सरः ३] मिथ्यात्वानुमाने दृष्टान्तभूतशुक्तिरूप्यशब्दार्थस्य दुनिर्वहत्वेन व्याप्तयसिद्धि: 203 सर्वार्थसिद्धिः तत्रापि पारमार्थिकप्रमाणाद्हणे सिद्धान्तविरोधादिदोषस्तदवस्थः । शुक्तिरूप्यशब्देन च किं रूप्यत्वाश्रयतया रूप्यतादात्म्येन वा प्रतीतं भास्वरं द्रव्यं निर्दिश्यते ? एतन्निष्ठतया प्रतीत रूप्यत्वं वा ? इदंत्वेन भातं रूप्यं वा ? रूप्यत्वसंसर्गो वा ? रूप्यतादात्म्यं वा ? विकल्पभेदाधिरूढमतद्वयावृत्तिरूपमलीकं वा? रजतसरूपबुद्धयाकारविशेषो वा? शुक्त्यवच्छिन्नाविद्याकृतचैतन्यविवर्तो वा ? शुक्तिरजतव्ययहारगोचरमात्रं वा किञ्चित् । आयेषु चतुर्वन्यथाख्यातिस्वीकारप्रसङ्गः । तत्र च निरुपाधिकमिथ्यात्वं न दृष्टम् । सोपाधिकमिथ्यात्वसाधने सर्वस्यापि प्रपञ्चस्य परस्परारोपयोग्यस्य देशकालान्तराद्युपधानेन मिथ्यात्वसाधनात् सिद्धसाधनता । न पञ्चमषष्ठौ ; तयोरपि स्वस्थाने - सम्यक्त्वात् शुक्तिस्थयोस्तयोरस्मदनभ्युपगतयोस्त्वयोदाहर्तुमशक्यत्वात् । अत एव न सप्तमः, व्यावहारिकसत्यानामपि तथाऽभ्युपगमप्रसङ्गात् । नाप्यष्टमः, न हि सत्याया बुद्धराकारो मिथ्या स्यात् , अन्यतया अनन्यतया वा प्रमितस्य आनन्ददायिनी ननु भाव एव मिथ्यात्वं तथा च न दोष इति चेत् , निषेधरूपत्वोक्तिविरोधादिति भावः । विकल्पभेदेति । विकल्पो ज्ञानविशेषः, तदधिरूढः तद्विषयः । अतद्वयावृत्तिरन्यापाहरूपमलीकं किञ्चिदित्यर्थः । बुद्धयाकारविशेषः-बुद्धिस्वरूपविशेषः । शुक्तयवच्छिन्नाविद्यांशकृतचैतन्यविवर्तः--शुक्तयाधारकाविद्यापरिणामविशेषोऽनिर्वचनीयं रजतम् । व्यावहारिकसत्यानामिति । अलीकत्वाभ्युपगमप्रसङ्गादित्यर्थः । शून्यत्व न त्वदिष्टमिति भावः । 1 सिद्धान्तादिविरोधदोष-पा. 2 निदर्श्यते-पा. तत्र निरु-पा. सत्यत्वात् शुक्तिनिष्ठयोस्तयोर्युष्मदस्मदन-पा. तथात्वाभ्युपगमप्रसगाच्च-पा.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy