________________
202
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
तत्त्वमुक्ताकलापः साध्यं त्वक्षाद्यबाध्यं यदि किमपि परं तेन न व्याप्तिसिद्धिः ॥४६॥
सर्वार्थसिद्धिः सत्यत्वान्तरनिषेधमनुवक्ति-साध्यमिति। तुः परेष्टविशेषनिषेधद्योतकः । परम् -अन्यत् । परमार्थसत्यत्वं हि लोकदृष्टादन्यत् । ब्रह्मनिष्ठ तद्वैधुर्य चात्र बाघयोग्यादन्यदेव । अतः कथं बाधादिप्रसङ्ग इति भावः । तद्दषयति-तेनेति । परमार्थसत्यत्वं हि व्यावहारिकादेव प्रमाणासिध्येत् ? पारमार्थिकाद्वा ? नाद्यः : प्रपञ्चस्यापि तत एव तसिद्धौ बाधस्य दुर्वारत्वात् , क्वचित्तस्य तत्साधकत्वं क्वचिन्नेति नियामकाभावात् । द्वितीये त्वपसिद्धान्तः ; व्यावहारिकप्रमाणागोचरसत्यत्वनिरूपिताभावेन सह व्यावहारिकप्रमाणेन कथं व्याप्तिगुह्येत ?
आनन्ददायिनी संमतं पारमार्थिकं सत्यत्वमित्यर्थः । नियामकाभावादिति । नन प्रत्यक्षादिभिः सत्त्वमात्रं गृह्यते, न तु पारमार्थिकत्वादि। ब्रह्मणि तु श्रुतिः सत्यादिपदवती बोधयति । तथा च तद्बोधनसामर्थ्यतदभावयोस्सत्त्वात् कथं तदभाव इति चेत् , उच्यते-प्रपञ्चऽपि 'प्राणा वै सत्यम्' इत्यादेस्सत्त्वेन वैषम्याभावात् । किं च मिथ्यात्वं हि कालत्रयासत्त्वं, तच्चैककालसत्त्वेनापि विरुद्धमिति तद्गाहिभिः कथं न बाध इति । अपसिद्धान्त इति । ब्रह्मान्यदसत्यमिति परसिद्धान्ता दिति भावः । व्यावहारिकेति । प्रतियोग्यग्राहकस्याभावाग्राहकत्वादिति भावः ।
1 दित्यर्थः-ग.