________________
सरः ३
मिथ्याशब्दस्य पारमार्थिकसत्येतरपरत्वेऽनुपपत्तिप्रकाशनम्
201
तत्त्वमुक्ताकलापः सत्यत्वं चेन्निषेध्यं प्रसजति दहनेऽप्युष्णताया निषेधः
सर्वार्थसिद्धिः सत्यत्वशून्यत्वमर्थ इति शङ्कते-सत्यत्वमिति । अत्र कालातीतत्वं निदर्शने प्रसक्तया निर्धारयति-प्रसजतीति । अयं भावः- इह हि प्रातीतिकं व्यावहारिकं पारमार्थिक वा सत्यत्वं निषिध्येत ? तत्राद्यः परानिष्टोपालम्भ इत्यन्यौ शिष्येते ; तयोश्च व्यावहारिकसत्यत्वनिषधे यत्रैव यस्य प्रसिद्धिं मन्यसे तत्रैव तन्निषेधसीति न कथं कालातीतेन चापसिद्धान्तेन च निगृह्येथाः ! व्यावहारिकं च मिथ्येति स्वदृष्टिः ; मिथ्याभूतसत्यत्वनिषेधेऽपि परेष्टमेव त्वया प्रतिष्ठापितं स्यादिति ।
आनन्ददायिनी वदित्यर्थः । निदर्शने प्रसक्तया–दृष्टान्ते वयनुष्णत्वानुमानेऽतिप्रसक्त्येत्यर्थः। एवं च तत्र कलातीत्व वदत्रापि कालातीतत्वं निर्धारयतीत्यर्थः । ननु सत्यत्वनिषेधस्य दहनेऽनुष्णत्वसाधकत्वाभावात् तदापादनं पृष्ठताडनन्यायमनुकरोतीत्यत्राह-अयं भाव इति। परानिष्टोपालम्भः परस्य यदनिष्टं प्रातिभासिकत्वं तस्योपालम्भो निषेध इत्यर्थः । तथा च सिद्धसाधनमिति भावः । केचित्तु-परानिष्टस्य 'परासम्मतस्यानुक्तस्येति यावत् । तथा चानुक्तोपालम्भ इत्यर्थ इत्याहुः । व्यावहारिकसत्यत्वनिषेध इति। अन्यत्र तदसिद्धेः सिद्धौ वा ब्रह्मणि सिद्धिरिति ब्रह्मणो व्यावहरिकत्वापातादिति भावः । परेष्टमिति । सिद्धान्ति
2 लातीतेनाप-पा.
3 तत्र कालातीतत्व-क.
1 यस्य सिद्धि-पा. 4 परासमवेत-ग.