________________
प्रपञ्चमिथ्यात्ववादिनां बाधकविकल्पोदाहरणम् 269 त्वनिष्ठा सिद्धयसिद्धयोः परमतनियतिस्सिद्धिमेवाधिरूढा 27° वेदस्यामानतायां त्वदभिमतहतिर्मानतायां च तद्वत् । 271 साध्या साध्याऽपि मुक्तिस्त्वदुपगमहता तत्समं चान्यदित्थं 272 रक्षाभ्यः प्रेषितोऽयं रघुपतिविशिखो राहुमीमांसकेभ्यः ।। ६० ।।
नित्यविभूतिसद्भावः शुद्धस्याशुद्धसृष्टिक्रम इति कथितश्शुद्धसत्वे तु तत्त्वे 273 स्थानं नित्यं श्रुतं 274 तत्स्मृतमपि 277 कलया तत्र देहाद्यवस्थाः । 278 सृष्टेः प्रागेकमेवेत्यपि निगमवचः स्रक्ष्यमाणव्यपेक्षं 29 नो चेत्स्वाभीष्टमायोपधिविलये स्वस्ति विश्वप्रसूत्यै ॥ ६१ ॥
नित्यविभूतेजंडाजडत्वपक्षी 280 ज्ञानत्वं चेद्रहस्यागमविदितमिति स्वीकृतं नित्यभूतेः षाड्गुण्यात्मत्वमेवं प्रसजति सह तत्पाठतोऽतो जडा सा । 281 तत्सम्बन्धात्कुतश्चित्तदुपचरणमित्याहुरेके परे तु ज्ञानत्वाजाड्यकण्ठोक्त्यनुगुणमवदन् मुख्यतामात्मनीव ।। ६२ ।।
नित्यविभूतेरजडत्वोपपत्तिः । 288 निस्संकोचा समस्तं चुलकयति मतिर्नित्यमुक्तेश्वराणां बद्धानां नित्यभूतिर्न विलसति ततः कम्य सा स्वप्रकाशा। मैवं नित्येश्वरादेस्सति मतिविभवे साऽस्तु तेनानपेक्षा 284 वेद्यानुद्भासकाले मतिरिव न तु सा बन्धकाले विभाति ॥६३ ॥
. अप्राकृतस्थानादेरनित्यत्वादिपरिहारः 28 तत्त्वान्यप्राकृतानि त्रिगुण इव परीणामतश्चेद्भवेयुः स्थानादि स्यादनित्यं न यदि न घटते भूततादीति चेन्न ।