SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ सरः ३] जल्पवितण्डयोः कथानगत्वाददुष्टाना सर्वसप्रतिपन्नानाभेव कथाङ्गत्वम् 197 तत्त्वमुक्ताकलाप: पक्षादेस्सिद्धयसिद्धयोन हि गतिरितरा नापि वादाङ्गमीहक् । सर्वार्थसिद्धिः पक्षादेरिति । यदि ह्यसिद्धयादिदोषदुष्टमपि साधकमङ्गीक्रियेत, तदा कैव कथा कथायास्तत्फल व्यवस्थायाश्चेत्यभिप्रायेणाह-नापीति । दुष्टमपि जल्पवितण्डयोरङ्गमिति चेन्न ; तयोर्निग्रहस्थाननिवृत्तिप्रसङ्गात् । न हि कथाङ्गस्वीकर्तुः कश्चिदपराधः स्यात् । अतः प्रतिभाक्षये परव्यामोहनेन पाक्षिकावष्टम्भविजयावहतया तयोस्तदनुज्ञानं न त्वङ्गतया, अवश्यप्रयोक्तव्यत्वप्रसङ्गाच्च । न च दुष्टानां कथाङ्गत्वं कैश्चिदनुशिष्टम् । अतिक्रान्तमर्यादानामभिमतिरुन्मदिष्णूनामिवोपेक्षणीया । किंच माध्यमिकादयोऽप्येतादृग्धेतुभिस्त्वदानिष्टं तत्तत्साध्यं साधयन्तस्त्वया न निगृह्येरन् । विमतमसाधकं दृश्यत्वात् संमतवदिति त्वदुक्तोपालम्भे च किं वक्ष्यसि । केन वान्यदपि किञ्चित्स्वयंप्रकाशत्वादिकं साधयिष्यसि ? स्वव्या घातादिदुष्टतया माध्यमिकादिप्रयोगोऽनास्थेय इति चेत् , आनन्ददायिनी दुष्टमपीति । असिद्धयादिदुष्टं साधनमित्यर्थः फलं-जयादि । तयोरिति । तथा च नाङ्गमित्यर्थः । हेतुमाह -न हीति । ननु तर्हि जल्पादौ कथं प्रयोगाभ्यनुज्ञानमित्यत्राह-अत इति । अवश्यति । तथा सति निग्रहानुद्भावनप्रसङ्गादित्यर्थः । ननु मतभेदेन सर्वमुपपन्नमिति चेत्तत्राह--न च दुष्टानामिति । त्वदन्योऽनुमाता नास्तीत्यर्थः । केन वेति । एवं च स्वयंप्रकाशत्वसाधकानामपि दृश्यत्वेन साधकत्वे तदपि ते न स्यादित्यर्थः । स्वव्याघातादीति । विमतं ___ 1 व्यवहारयोश्च-पा. 2ज्ञा नत्वग-पा, 3 केन चान्य-पा. घातदुष्ट-पा. 5 दृश्यत्वेनासाधकत्वं तदपि-क.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy