________________
196
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
सर्वार्थसिद्धिः 'साधने तु न तथा, तथैवोभयव्यवस्थादृष्टेः । अन्यथा स्वबुद्धिकल्पितधेनुपर्वतादिषु कल्पितैरेव कैश्चिल्लिङ्गैः पयःपावकादीननुमाय तदर्थिनां तत्र प्रवृत्तिप्रसङ्गात् । व्यावहारिकसदेव साधनाङ्गं न प्रातिभासिकमिति चेन्न ; शुक्तिरूप्यस्य त्वया दृष्टान्ततयोपादानात्। अत एव प्रमितत्वेन लोक बुद्धयारूढमाश्रयादि भवतीत्यपि निरस्तम् । प्रतिवादि संमतत्वमात्रेण पक्षीकारादि स्यादिति चेन्न ; स्वार्थानुमाने तदयोगात् , तत्पूर्वकत्वात् परार्थप्रयोगस्य अन्यतरा सिद्धिलोपप्रसङ्गाच्च । तदिह पक्षादीनां प्रमाणतस्सिद्धौ तन्मिथ्यात्वसाधनव्याघातः। असिद्धौ चाश्रयाद्यसिद्धयो बयस्संमन्तव्याः। विरुद्धद्वयसमुच्चयनिषेधौ तु दुर्वचावित्यभिप्रायेणाह
आनन्ददायिनी साधने विति। अनुमान इत्यर्थः। एवं व्यवस्थायां नियामकमाह-अन्यथेति । शुक्तिरूप्यस्येति। न च शुक्तिरूप्यस्य प्रातिभासिकत्वेऽपि तद्गतद्रव्यत्वादेव्यावहारिकत्वमस्त्विति वाच्यम् । प्रातिभासिकस्य व्यावहारिकधर्मानाधारत्वादिति भावः । अत एवेति । शुक्तिरूप्यादेः प्रमितत्वेन लोकबुद्धया रूढ्यभावादिति भावः । अन्यतरेति । वादिप्रतिवादिनोरन्यतरस्य तत्सिद्धिनियमादिति भावः । ननु हेतोः स्वरूपासिद्धिरस्तु, कथमसिद्धय इति बहुवचनमित्यत्राह-असिद्धौ चति । विरुद्धसमुच्चयः-पक्षतावच्छेदकसाध्यहेत्वादिसमुच्चयः । तनिषेधः-मिथ्यात्वतदभावयोनिषेधः ।
सिद्धत्वलोप-पा. तु सुदु
1 साधके तु-पा. 2 समतिमात्रेण-पा. पा. द्तदृश्यत्वा-क 'दित्यर्थः-क.