________________
सर. ३] ~~~~~~~~~~~
दृश्यत्वहेतुना विश्वमिथ्यात्वसाधनेऽसिद्धयापादनम्
195
~
सर्वार्थसिद्धिः वृत्तित्वे व्याघातः ; तदतिरिक्तस्वीकारे सत्याद्वैतव्याघातः । हेतुपदेन च पक्षधर्मतयोपस्थाप्यमानं लिङ्गं साध्यपदेनापहियत इति प्रतिज्ञाहेतुविरोधः। शुक्तिरूप्यगतयोश्च साध्यसाधनयोस्सत्यत्वेन ग्रहणे प्राग्वद्विरोधः। असत्यत्वेन ग्रहणे तूदाहरणवाक्येन व्याप्तिप्रदर्शनविरोधः । दृष्टान्ते च मिथ्यात्वेन प्रदर्शितस्य साध्यस्य पक्षे सत्यत्वेनोपसंहारे प्रतिज्ञोदाहरणविरोधः । असत्यत्वेनोपसंहारे च विधायकमेव निषेधकमिति व्याघातः । एवमसिद्धयश्च । तथाहि-यद्यपि तर्कस्यारोपितलिङ्गधी रङ्गं भवति तथाऽपि
आनन्ददायिनी मपि द्वितीये साध्यत्वव्याधात इति विगीतपदार्थदूषणेनैव दूषितप्रायमिति न पृथक् दूषितम् । तत्प्रकारश्च मिथ्यात्वस्य मिथ्यात्वे प्रपञ्चसत्यत्वापातः, यद्यनिर्धारणं तदाऽपि तस्यान्यतरत्वेन पूर्वविकल्पदोष इति । केचित् अत्र ग्रन्थपातमाहुः ॥ साध्यपदेनापह्रियत इति । प्रतीयमानाधिकरणनिष्ठाभावप्रतिपादनादिति भावः । प्राग्वद्विरोध इति । दृश्यत्वमिथ्यात्वयोस्सत्यत्वे आश्रयस्य शुक्तिरूप्यस्यासत्यतया सत्याश्रयत्वं न स्यादिति भावः । असत्यत्वेनेति । तन्निष्ठा भावप्रतियोगित्वेनावगतस्य तन्निष्ठतया 'प्रतिपादनायोगादिति भावः । किं च मिथ्यात्वेन प्रदर्शितं साध्यं पक्षे सत्यत्वेनोपसंहियते, उतासत्यत्वेनेति विकल्पमभिप्रेत्य आद्य आह-दृष्टान्तइत्यादिना। द्वितीय आह-असत्यत्वेनेति । विधायकमेवेति । पक्षे पक्षनिष्ठात्यन्ताभावप्रतियोगिसाध्यमस्तीति व्याघात इत्यर्थः ।
1वृत्तित्वव्याघातात् तद-पा. संहारे तु विधा-पा. 3 रन तथाऽपि-पा. 4 तदपि-ग. केचित्तु अत्र-ग. भावे प्रति-ग. ' प्रतीयमानत्वापाद-ग.
13*