SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ 194 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे नायक सर्वार्थसिद्धिः स्यात् , तदा 'सत्यत्वेन मिथ्यात्वेन वा संप्रतिपत्तिः स्यात् । तत्राये मिथ्यात्वसाधनव्याघातः ; द्वितीये साध्यत्वव्याघातः । मिथ्यापदं च सत्यमसत्यमनिर्धारितविशेषद्वयं वा मिथ्यात्वमुपाददीत। प्रथमे तस्य मिथ्यावृत्तित्वव्याघातः। न हि सत्यं रूप्यत्वं शुक्तिरूप्ये वस्यति । सिद्धान्तव्याधातश्च, ब्रह्मस्वरूपस्य सत्यस्य निराधारस्यासत्य आनन्ददायिनी भावः । क्वचित् 'किं च विगीतं यदि मिथ्या स्यात् ' इति पाठः, तदा विगीतं मिथ्या स्यादिति साध्यते तदा साधनदशायामित्यर्थः । न हीति । ननु मिथ्यात्वं क्वचिद्वर्तते न वा, "4आये मिथ्यात्वं सत्यमसत्यं वा, नाद्यः तदाश्रयस्य सत्यत्वनियमेन मिथ्यात्वाश्रयत्वायोगान्मिथ्याशब्दवाच्यत्वाभावप्रसङ्गात् । न द्वितीयःतस्यापि "सत्यत्वरूपमिथ्यात्वाश्रयत्वाभावेन तस्य मिथ्यात्वाश्रयत्वानुपपत्तः । न द्वितीयः निरधिष्ठानत्वायोगादिति चेन्न । मिथ्यात्वं हि किञ्चिन्निष्ठाभावप्रतियोगित्वं तच्चान्यत्र सत एवेति न दोषः, न च त्वया वक्तुं शक्यमित्याह-सिद्धान्तव्याघातश्चेति । किं च मिथ्यात्वं सत्यमपि ब्रह्मस्वरूपं तदतिरिक्तं वेति विकल्पाभिप्रायेणाह-ब्रह्मति । ननु तस्यासत्यवृत्तित्वं माऽस्त्विति चेन्न । प्रपञ्चस्य सत्यत्वप्रसङ्गात् । ननु सत्यत्वमपि ब्रह्मेति चेत्, ब्रह्मणस्तस्य सत्यत्वप्रसङ्गादेतादृशसत्यत्वाभावस्य पराभिमतत्वेन बाघ कत्वाभावाचेति भावः । असत्यमनिर्धारितविकल्पद्वय _1 सत्यत्वेन वा मिथ्या-पा. मुपस्थापयति-पा. 3 दिति बाध्यते ?-ग. + आयेऽघि सत्य-क. 5 सत्यरूप-क. मिथ्यात्वानुपपत्तेः । ननु निरधि-क. 'ननु सत्यासत्य-क. सत्यत्व ब्रह्मेति-ग. काभावप्रसङ्गाच्चति-क.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy