________________
सरः ३]
दृश्यत्वहेतुना विश्वमिथ्यात्वसाधने बहुव्याघातापादनम्
193
तत्त्वमुक्ताकलापः दृश्यत्वाद्विश्वमिथ्यावचसि विहतयोऽसिद्धयश्चात्र बढ्यः
सर्वार्थसिद्धिः अथ कार्यमिथ्यात्वासिद्धिरेवासिद्धा, अनुमानतस्तत्सिद्धरित्यत्राह -दृश्यत्वादिति । मिथ्याशब्दोऽत्र 'छकयोः' इतिवद् भावप्रधानः । विगीतं मिथ्या दृश्यत्वात् यद्दृश्यं तन्मिथ्या यथा शुक्तिरूप्यमित्यत्र सर्वे दोषास्समाह्रियन्ते। विहतयस्तावत -विगीतपदं किञ्चिन्निष्ठ विगीतत्वमुपस्थापयति, तस्यापि पक्षीकरणात् तन्निष्ठात्यन्ताभावो मिथ्यापदेनोपस्थाप्यत इति प्रतिज्ञापदयोाघातः । द्वयोरपि पदयोस्तत्त्वतः स्वार्थसमर्पकत्वाभावान्न व्याघात इति चेत् ; एवं सति त्वन्मते कचिदपि प्रतिज्ञाविरोधो न स्यादिति विशृङ्खलविरुद्ध'भाषितेन भवता भवितव्यम् । ईदृशतत्त्ववेदिना च त्वया प्रतिवादिनोऽपि विरुद्धं वदन्तो न निग्राह्याः। परबुद्धिसिद्धविरोधात्तन्निग्रह इति चेन्न । परबुद्धिसिद्धेऽपि त्वया तत्त्वशून्यत्वावधारणात् । किंच विगीतत्वं यदि मिथ्या
आनन्ददायिनी अवसरसङ्गतिं दर्शयति--अथेति । प्रतिज्ञापदयोरिति । विगीतत्ववान् विगीतत्वाभाववानिति ह्यवसानादिति भावः । एवं सतीति। तत्वतः स्वार्थसमर्पकयोरेव विरोधे ब्रह्मेतरप्रतिपादकस्थले क्वचिदपि व्याघातो न स्यादिति भावः। परबुद्धिसिद्धऽपीति । शुक्तिरजतभ्रान्तस्येव भ्रान्तिज्ञस्य प्रवृत्त्यभावादिति भावः । किं च विगीतत्वमिति । अन्यतरनिर्णयरहितमनिर्धारितमेवास्त्विति चेन्मैवम् ; तथा सति विगीतस्य सत्त्वासत्त्वसन्देहे आश्रयासिद्धिप्रसङ्गादिति
1 भाषिणा भवता भाव्यम्-पा, 2 इति न-पा. SARVARTHA VOL. IV
13