________________
192
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
नायक
तत्त्वमुक्ताकलापः तस्मान्मिथ्यात्मकस्य स्वयम नुपधिकं सत्यमेवास्तु सूतिः
सत्योपादानवादे जगदपि न मृषा स्यादितीष्टं त्विदं नः ॥४४॥
सर्वार्थसिद्धिः दिना मृदस्सारूप्यायोगात् । अतस्सारूप्येण वा वैरूप्येण वा अन्वयव्यतिरेकवता धर्मिग्राहकसिद्धेन वा केनचिदाकारण निमित्तत्ववदुपादानत्वमपीति नियमः। एवं स्थिते सत्यस्य कारणत्वं कार्याणामसत्यत्वं च स्थापयतस्ते निरुपाधिकात् सतो जगदुत्पत्तौ न विरोध इत्याहतस्मादिति । निर्विकारश्रुतिविरोधात् उपहितग्रह इति चेन्न ; विकारमिथ्यात्वेन युष्माभिस्तत्समाधानात् । सूतिः-अध्यासाधिष्ठानतया उपादानमित्यर्थः । अत्र प्रसङ्गान्तरमाशङ्कय परिहरति- सत्येति । तुशब्देन न केवलमिष्टप्रसङ्गता ; व्याप्तिसापेक्षे प्रसङ्गे पूर्ववत्सारूप्यनियमभङ्गोऽप्यस्तीति द्योत्यते ॥ ४४ ॥
इत्युपादानोपादेयसालक्षण्यनियमभङ्गः.
आनन्ददायिनी नियमभङ्गस्य प्रकृताधुपयोगमाह-एवं स्थित इति । कार्यस्य सत्यतान्यथानुपपत्त्या नाविद्याकल्पनमनुपपत्त्याभावादिति भावः ॥४४॥
उपादानोपादेयसालक्षण्यनियमभङ्गः.
1 कारत्वश्रुति-पा. 2 नियभितभङ्ग-ग. 3 एव मत इति-ग.