SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ सरः३] मिथ्याभूतकार्यकारणकल्पनामूलभूना प्रकृतिविकृत्यैकरूप्यनियमस्य निरास: 191 तत्त्वमुक्ताकलापः नक्षिप्तं माक्षिकाढ़ेः क्रिमिमुखजननात्सूत्रकारैतिीये। सर्वार्थसिद्धिः सभविषमदशाभेदव्यवस्थापनात् । अतः कार्यान्तरकारणव्यावर्तकाकारण सारूप्यमपेक्षितमिति वक्तव्यम् । तत्र माक्षिकगोमयादिभ्यः क्रिमिवृश्चिकाद्युत्पत्तिदर्शनाट्यभिचारः । एप्वपि पार्थिवत्वाकारण सारूप्यमस्तीति चेत्, किमतः ? तेनाकारण तेषां तत्कारणत्वे पार्थिवान्तरेभ्योऽपि तज्जातीयोत्पत्तिप्रसङ्गात् । यदि चासजातीयोत्पादकव्यावर्तकाकारण सारूप्यमिष्येत कथमिदं प्रकृतौ संभाव्येत । सर्वस्याप्यन्ततः प्रकृतिकार्यत्वाभ्युपगमात्तद्व्यतिरिक्तोपादानानङ्गीकाराच्च। एव कार्यम्य विजातीयकार्यव्यावर्तकाकारेण सरूपमुपादानमित्यपि नियमो दूष्यः । सारूप्यविकल्पदौःस्थ्यस्य दुर्वारत्वात् , शरावादिजातीयव्यावर्तकघटत्वा आनन्ददायिनी साङ्ख्यैः कार्योपादानयास्तादात्म्याङ्गीकारादिति भावः । अत इति । कारणतावच्छेदकरूपेण सालक्षण्यं विवक्षितमित्यर्थः । तत्रेति । गोमयत्वादेवृश्चिकादावभावादिति भावः । 1असजातीयेति । कारणतावच्छेदकभिन्नमप्यसजातीयायावर्तकं भवति पार्थिवे गन्धवत्त्वव दिति पूर्वस्मात् भेदः । अन्तत इति । तथा च तत्र सालक्षण्यं बाधितं स्यादिति भावः। दूषणप्रकारमेवाह-सारूप्येति । उक्त 1 कार्यविजातीयेति-क.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy