________________
190
सव्याख्यसर्वार्थसिद्धि महिततत्त्वमुक्ताकलापे
[नायक
तत्त्वमुक्ताकलापः ___ कार्याणां यत्मरूपं किमपि गुणमयं कारणं कापिलोक्तं
सर्वार्थसिद्धि. सिध्येत् । स्वरूपोपाधिकसत्यत्वविधौ च तस्य नीलादिवन्निष्प्रतियोगिकत्वान्न षष्ठी समन्वीयेत । अतो यथाभाप्यमिहार्थ. ॥ ४३॥
इत्यविद्याकल्पककार्यमिथ्यात्वानुपपत्तिभङ्गः,
अत्र यदुपजीवनेन मिथ्याभूतस्य मिथ्याभूतमेवोपादानमिति कल्प्यने तमेव प्रकृतिविकृत्यैकरूप्यनियमं निरस्यति – कार्याणामिति । नविलक्षणत्वाधिकरणे हि सत्वरजस्तमोमयस्य जगतस्तादृशमेवोपादानं युक्तम् . न तु निर्गुणं ब्रह्मेति वदतस्सांख्यस्य द्वितीयेऽध्याये सूत्रकारैरुत्तरं दत्तं " दृश्यते तु" इति। कथंचित्सारूप्य ब्रह्मणोऽपि सिद्धम् ; सर्वथा सारूप्यं न ते प्रकृतेरपि स्यात् ; भेदाभेदाङ्गीकारेऽपि
आनन्ददायिनी यथाभाष्यमिति । नियन्तृत्वं भाष्ये प्रतिपादितमित्यर्थः । ननु सत्य ज्ञानं ' 'तत्सत्य स आत्मा' त्रीणि रूपाणीत्येव सत्यं' ' मृत्तिकेत्येव सत्यम् ' इत्येवमादावपि तथा प्रसङ्ग इति चेत् । 'सत्यं ज्ञान' ' तत्सत्यम् ' इत्यादाविष्टापत्तेः । मृत्तिका' इत्यादौ तु योगार्थों बाधकबलात् परित्यज्यते यथा क्वचिन्मुख्यार्थत्याग इति ॥ ४३ ॥
अविद्याकल्पककार्यमिथ्यात्वान्यथानुपपत्तिभङ्गः.
पूर्वसङ्गतिरवास्य सङ्गतिरित्याह-अत्रेति । भेदाभेदेति ।
1 स्वरूपेऽधिक-पा. दो योगा-ग.