________________
सरः३] 'प्राणा वै सत्यम्' इत्यादेव्यावहारिकमत्यतापरत्वे ब्रह्म गोऽपितथात्वापादनम् 189
सर्वार्थसिद्धिः सत्यं प्राणा वै सत्यं तेषामेष सत्यम्" इत्यत्र च प्रकृत्यवगतप्राणसत्यत्वाबाधेन सबन्धविभक्तेरुचितविशेषसंभवे विपरीतविवक्षाकल्पनमन्याय्यम् । यदि च प्राणेषु व्यावहारिक सत्यत्वमिहानूयेत तदा मिथ्याभूतानां एष सत्यमिति किं नाम त्वादिष्टं निर्दिष्टं स्यात् ? प्रत्युत समभिव्याहारसामर्थ्यात् ब्रह्मणोऽपि सत्यत्वमविशिष्टोपात्ततया व्यावहारिकमित्येव
आनन्ददायिनी तदाह-प्रकृत्यवगतेति । तथा च प्रतियोगित्वे षष्ठी । सत्यशब्दश्च नियन्तृपरः । तस्य ह वा एतस्य ब्रह्मणो नाम सत्यं तान्येतानि त्रीण्य. क्षराणि सत्तियमिति तद्यत् सत् तदमृतं अथ यद्यत्तन्मयं अथ यद्य तेनोभे नियच्छति' इति चिदचिनियन्तृत्वस्य 'बृहदारण्यकनिरुक्तिबलात् तत्सिद्धेः प्राणादीनां किञ्चिन्नियन्तृणामपि नियन्तृत्वमम्य लभ्यते ; 'पवित्राणां पवित्रं या मङ्गलानां च मङ्गलम्' इतिवत् । ननु सत्यशब्दम्य रूढ्यर्थ एव गृह्यत इति चेन्न । 'आज्यैः स्तुवते' इत्यत्र । तदाज्यानामाज्यत्वम् ' इति श्रौतयोगार्थस्य रूढ्यापेक्षया बलीयस्त्वेन स्वीकारवत् श्रौतयोगस्य ग्राह्यत्वात् । उक्तं च वार्तिके
गौणं लाक्षणिकं वाऽपि वाक्यभेदेन वा स्वयम् । वेदो यमाश्रयेदर्थ को नु त प्रतिकूलयेत् ॥
इति । तथा च सर्वनियन्तेति वाक्यार्थ इति न मिथ्यात्वसिद्धिः । किं च यदि व्यवहारिकसत्यानां प्राणानां मध्येऽतिशयेन सत्यमित्युच्येत तदा मुख्य व्यावहारिकत्वमुक्तं स्यादिति 4 ब्रह्मणोऽपि मिथ्यात्वप्रसङ्गः, तदाह-यदि चेति ।
1बृहदारण्यकेऽस्यानुपलम्भादत्र 'छान्दोग्यनिरुक्तिबलात् ' इति पाठेन भाव्यमिति भाति. 2 पवित्रं च म-ग. 3 ग्राह्य इति-ग + ब्रह्मणो मिथ्या-ग.