SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ 188 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे [नायक सर्वार्थसिद्धिः नामधेयम्" "अपागादग्नेरग्नित्वम्" इत्यादिकमसत्कार्यवादनिरासार्थतया नेतव्यमिति भावः । एवं “ मृत्तिकेत्येव सत्यम्" " त्रीणि रूपाणीत्येव सत्यम् " इत्यादौ च श्रुत्युपात्तमृत्तिकादिसत्यत्वानुरोधेनोपादानोपादेयद्रव्यतादात्म्यपरत्वसंग्रह एव साधीयान् । “अथ नामधेयं सत्यस्य आनन्ददायिनी अपागादग्नेरग्नित्वमिति । अग्नित्वेन प्रतिपन्नम्याग्नेरग्नित्वमपागात्बाघितमित्यर्थः । तथा च मिथ्यात्वमिति भावः । किं च मृत्तिकेत्येवेतीतिशब्देन मृत्तिकाप्रकारप्रतिपत्तम॒त्तिकारवेन सत्यमिति प्रमाणसिद्धमित्यर्थतया विकाराणां तदन्यत्वम्यैव स्वरसप्रतीतेन पूर्वपक्ष्यवकाश इत्याह--एवमिति । ननु ' अथ नामधेय सत्यस्य सत्यं प्राणा वै सत्यं तेषामेष सत्यं' इत्यादिषु सत्यस्य जगत. प्रमाणशब्दोपलक्षितस्य जगतश्च सत्तावलक्षण्यावगमान्न ब्रह्मवत् पारमार्थिकत्वं प्रपञ्चस्येति चेत्तत्राह-सत्यस्य सत्यमित्यादि । सत्यं वैलक्षण्यमेव गम्यत इति, तथाऽपि न प्रपञ्चस्य मिथ्यात्वसिद्धिः। कालत्रयनिरूपितत्वानन्याधीनत्व विशेषणविशिष्टं ब्रह्मसत्त्वं किंचित्कालनिरूपितमन्याधीन प्रपञ्चसत्त्वमिति वैलक्षण्यसंभवात्। किंचात्र षष्ठी न निर्धारणार्थे । तथा सति प्राणानां सत्यत्वकथनेन तदन्यधर्मेण निर्धारणं स्यात् । न च सत्यत्वेन निर्धारणं. समुदायिसाधारणधर्मेण पृथक्करणायोगात् । 1 विशेषविशिष्ट-क 2णार्था-क.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy