________________
186
मव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
नायक
तत्त्वमुक्ताकलापः तस्मात्सत्यानृते द्वे मिथुनमिति न सद्विश्वसत्ता ह्यबाध्या
सद्विद्यायां च कार्य ननु कथमसतस्मद्भवेदित्युपातम् ॥४३॥
___ सर्वार्थसिद्धिः स च स्वरूपसत्यत्वाभावान्निरघिष्ठानो न सिध्येत् । अतो ब्रह्मण उपादानस्वार्थमुपाधे स्वरूप सिद्धयर्थं च मिथः करम्बितसत्यानृतमिथुनसभवः सर्गः स्वीकार्य इति। अत्र लोकसिद्धोपादानप्रक्रियाविरोधमभिप्रेत्याह--- इति न सदिति । सत्ययोरेव हि प्रकृतिविकृतित्व दृष्टम् ; न च कल्पितरजताद्युपहितस्य तत्तदर्थक्रियाकारित्वम् । अतो मिथ्योपसृष्ट. तयाऽपि ब्रह्मण उपादानत्वं मृग्यमिति भावः । उपादानमिथ्यात्वकल्पकासिद्धिमाह--विश्वेति । प्रपञ्चस्य सत्यत्वं तावद्यावहारिकव्यपदेशेन त्वयाऽपि संगृह्यते ; बाधश्च परिहरिष्यत इति भाव.। श्रुतिविरुद्धं च कार्यमिथ्यात्वमित्याह-सद्विद्यायामिति । " त?क आहुः असदेवेदमग्र आसीत्' इति परमतमन्द्य स्वमतेन तत्प्रतिक्षेपे “कुतस्तु खलु सोम्यैवं स्यात् कथमसतः सज्जायेत" इति कार्यसत्यत्वं संप्रति
आनन्ददायिनी मुपादानत्वं स्वीर्कायामत्यत्रहि-त चेति। सत्ययोरेव हीति । नन्वविद्योपहितस्य शुक्तयादे रजतोपादानत्वं दृष्टमिति चेन्न । तस्यासंप्रतिपन्नत्वादिति भावः। अर्थक्रियाकारित्वं कटकाद्युपादानत्वमित्यर्थः। मृग्यं-नाम्तीत्यर्थः । ननु विश्वस्य सत्त्वमेव नाम्ति ; कुतस्तस्याबाध्यत्वमित्यत्राह-प्रपञ्चस्येति । कार्यसत्यत्वमिति । ननु
1 सिद्धयर्थ मिथः-पा. करम्भित-पा, 3 सत्यत्वमेव-क.