SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ सरः ३] मिथ्याभूतप्रपञ्चोपादानत्वनिर्वाहार्थ ब्रह्मण्यविद्याकल्पनमिति पक्षस्यानुवादः 135 तत्त्वमुक्ताकलापः मिथ्यातस्य सत्यं निरुपधि भजते न घुपादानभावं तस्योपाधिश्च मिथ्यात्मक इति निरधिष्ठानता नास्य युक्ता। सर्वार्थसिद्धिः यत्तु मिथ्याभूतस्य प्रपञ्चस्य तादृशमेवोपादानं भवितुमर्ह . तीत्याहुः, तदनुभाषते -'मिथ्यति । अयं नावः-यद्यपि ब्रह्मोपादानकमशेष कार्य मान्नातम् ; तथाऽपि तस्य न स्वरूपतस्तदुपादानत्वं युक्तम् , निर्विकारत्वात् चिद्रूपत्वाच्च । अत उपाध्यपेक्षायां ब्रह्मण उपादानत्वघटकतया प्राप्त उपाधिः स्वकार्यवन्मिथ्याभूत एष्टव्यः । आनन्ददायिनी ननु मिथ्याभूतप्रपञ्चं प्रति ब्रह्मण उपादानत्वश्रुत्यन्यथानुपपत्तिबलादविद्यासिद्धिरित्याक्षेपसंगतिमाह -यविति। ननु सत्यस्य मिथ्याभूत प्रत्युपादानत्वं शुक्तयादौ भवद्भिरेवोच्यत इत्यत्राह -अयं भाव इति । निर्विकारत्वादिति । शुक्तयादेरपि न साक्षादुपादानत्वं यद्यपि तथाऽप्यत्र विशेष इति भावः । चिद्रूपत्वादिति । चितो जडात्मकत्वविरोधादिति भावः । ब्रह्मण उपादानत्वघटकतयेति । यत्तादात्म्यापादक कार्य तदुपादानामेति तत्तादात्म्यापादकस्य परिणामिनो ब्रह्मनिष्ठस्यावश्यकत्वादिति भावः । ननु तर्हि ब्रह्मणः किमर्थ 1 मिथ्याभूतस्येति-पा. मामनाम-पा. कारत्वाद्विरूप-पा.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy