________________
सर. ३]निर्दोषश्रुत्यविरोधार्थकल्पितस्य ब्रह्मगी-आनुवन्धिमायाविद्याविभागपक्षस्य निरास:183
तत्त्वमुक्ताकलापः मायाविद्याविभागोऽप्यफल इह परोन्मोहनार्था हि भाया।
मिथ्यार्थान् दर्शयित्वा विहरणमपि तैस्तादृशं भावयन्ती
सर्वार्थसिद्धिः विवृणोति-परेति । अयं भाव:-ये नाम केचिन्मायया क्रीडन्ति, न तेऽनया मोमुह्यन्ते ; परानेव व्यामोहयन्ति । अत्र तु न वस्तुतस्सन्ति भवतां परे मोहनीयाः । कल्पितांस्तु क्षेत्रिणः कल्पितानि च मोहकरणोपकरणानि स्वय सर्ववित्परमेश्वरो मायावी यदि कल्पितत्वेन पश्येत् , कथं तान् मुमोहयिषेत् ? कथं च तैश्चिक्रीडिषेत् ? अत ईदृशोपाधिविभागेन जीवश्वरयोस्सदोषनिर्दोषत्वविभागो दुस्साध इति । अथ पराविद्याकल्पितानि जीवाद्युपकरणानि ब्रह्मापि स्वमायया परमार्थवत्पश्यतीति मन्वीत ; तत्राह-मिथ्यार्थानिति । दर्शयित्वासत्यत्वेनेति शेषः । तादृशं-मिथ्याभूतमित्यर्थः । इयं स्वयमसत्येव माया स्वसिद्धान्यविद्यासिद्धानि वा मिथ्याभूतानि विहारोपकरणानि
आनन्ददायिनी दित्यत आह-अयं भाव इति । यदि कल्पितत्वेन पश्येदिति । ननु यथा रामरावणादिसालभञ्जिकाजालं वस्तुनो निर्जीवत्वेन जानन्त एव सालभञ्जिका एव परस्परं मारीचादिरूपेण मोहनव्यापारे युद्धादिषु च प्रवर्तयन्तो दृश्यन्त इति चेत्सत्यम् । तत्तत्कथाभिनयेन सत्यकथाज्ञानस्य ज्ञायमानतया तदवगतिहेतुत्वेन सार्थकत्वात् । अत्र तु
1 ना साऽपि माया-पा. ते तया-पा.