________________
182
समाख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
तत्त्वमुक्ताकलापः
क्षेप्तुं मायादिशब्दः क्षम इति वदतः स्यादविद्या तवैव ॥४१॥ निर्दोषश्रुत्यबाधप्रणयिभिरुदितो ब्रह्मजीवा
नुबन्धी
सर्वार्थसिद्धिः विशेषैविद्यां वदतस्तवैवाप्रतिपत्तिविप्रतिपत्तिभ्यां निग्रहः स्यादित्यभिप्रायेणोक्तम्-स्यादविद्या तवैवेति ॥ ४१ ॥
इति मायादिशब्दानां ब्रह्मदोषप्रतिपादकत्वानुपपत्तिः,
अत्र केचिन्निदोषश्रुत्यविरोधमाकाङ्क्षन्त एवं व्यभाक्षुःअविद्या किल स्वकल्पिताना क्षेत्रज्ञानां सत्यं तिरोधायासत्यं सत्यत्वेन प्रकाशयति ; दुःखादिकं च दोग्धि ; माया तु ब्रह्मणः सत्यमसत्यं च सम्यगेव दर्शयन्ती दुःखादिक चानुत्पादयन्ती विश्वव्यापारलीलारस प्रसूत इति । इमं विभागमनुभाष्य दूषयति-निर्दोषेति । अफलत्वं
आनन्ददायिनी अप्रतिपत्तिः - अज्ञानम् । विप्रतिपत्तिः -- विपरीतज्ञानम् । ॥४१॥
मायादिशब्दानां ब्रह्मदोषप्रतिपादकत्वानुपपत्ति'.
ननु निर्दोषत्ववचनविरोघो नास्ति, मायाया दोषत्वाभावात् । तथा च मायासिद्धौ न विरोध इत्यक्षेपसंगतिमाह--अत्र कोचिदिति । ननु विभागस्य वैयर्थ्यं ब्रह्मणो निर्दोषत्वस्थापनस्यैव प्रयोजनत्वा