________________
सरः ३] अनृतासदादिपदानामपिमिथ्येतरप्रकृततत्तदर्थपरतयाब्रह्माजानक्लप्तिनिरासः 181
तत्त्वमुक्ताकलापः त्येतत्तत्त'प्रदेशे स्फुटविदितमतो न त्वदिष्टाऽस्त्यविद्या।
किंचाविद्यादिशून्यः पर इति विविधाम्नायकण्ठोक्कमर्थं
सर्वार्थसिद्धिः कृतशब्दादिभिपि न मिथ्यार्थग्रहः, अवस्थाविशेषवौशष्टयपरत्वात् । तदत्र फलितमाह-अत इति । स्वदिष्टानिर्वचनीयत्वादिविशिष्टेत्यर्थः । अनन्यथासिद्धबहुश्रुतिप्रतिहतेश्च मायादिशब्दै ब्रह्माज्ञानक्लप्तिरित्याइकिं चेति । निरवद्यमिति सामान्योक्त्याऽप्यज्ञानरूपमवद्यं निरस्यते । अस्ति चाकर्मवश्यत्वम्बतस्सर्वज्ञत्वश्रुतिः, “ सकला न यत्र क्लेशादयस्सन्ति परावरेशे" इत्याधुपबृंहणशनं च। मोक्षप्रदत्वश्रुत्या च स्वयं न मायासंबद्धः, तत्प्रसादाधीनं ह्यन्येषां मायातरणं गीयते । ननु " त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसि" इति कर्मवश्यस्य योगसिद्धस्य गुरोरविद्यातारकत्वमानातमिति चेत् ; अस्तु तत्रार्थस्वभावात् परम्परया तारकत्वम् , ब्रह्मण एव साक्षान्मोक्षप्रदत्वेन प्रतिपादनात् । एवमविद्याप्रसङ्गरहिते ब्रह्मणि असाधकतमैः शब्द
आनन्ददायिनी तीव्याकृतमासीत् ' इत्यादावित्यर्थः । अवस्था-सूक्ष्मावस्था । मायादिशब्दैरिति । पूर्वोक्तमायादिशब्दरित्यर्थः । ब्रह्माज्ञानपक्षे निरवद्यत्वश्रुतिविरोधश्चत्याह-निरवद्यमितीति । अविद्याश्रयत्वे हि अकर्मवश्यत्वं सर्वज्ञत्वं च न स्यातामित्याह-अकर्मवश्यति ।
प्रदेशैः स्फुट, कृतशब्दैरपि-पा. 'थ्यार्थसंग्रहः-पा. 'मायावन्ध.-पा. 'ह्येषां-पा.