SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ 180 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे [नायक सर्वार्थसिद्धिः अविद्यया मृत्युं प्राप्य स्थित इति 1 निवाहस्य चातिक्लिष्टत्वात् ; बाधाभावे च स्वरसपरित्यागायोगात ; ब्रह्मविद्यामधिष्ठाय ततु मृत्युमविद्यया । इत्युपबृंहणानुगुण्याच्च। 'अविद्या कर्मसंज्ञाऽन्या' इत्यत्र बन्धककर्मविषयत्वं वाक्यशेषसिद्धम् । “अविद्यायामन्तरे वर्तमानाः " "सोऽविद्याग्रन्थि विकिरतीह सौम्य," "अविद्यासञ्चितं कर्म" "अविद्यातरुसंभूति बीजमेतद् द्विधा स्थितम् ' इत्यादौ प्रकरणानुगुणतत्तदर्थविषयत्वं ग्राह्यम् । आदिशब्देन "अनतेन हि प्रत्यूढाः" 'त इमे सत्याः कामा अनतापिधानाः" "तेषां सत्यानां सतामनृतमपिधानम्" इत्याम्नातोऽनतशब्दश्च संगृहीतः। सत्कर्मणि ऋतशब्ददर्शनात्तदितरवृत्त्या दुष्कर्मविषयोऽत्रानतशब्दः । दुष्कृतस्य च ज्ञानपिधायित्व श्रुतिस्मृतिसिद्धम् , त्वयाऽपि दुस्त्यजं च । एवमसदव्या ___ आनन्ददायिनी समस्तत्वादिति भावः । परोक्तमर्थं दूषयति-अविद्ययेति। तरणस्य प्राप्त्यर्थत्वाभावात् स्थित इत्यध्याहारदोषप्रसङ्गाच्च । ननु 'एत सेतु तीर्खा' इत्यत्र प्राप्तयर्थत्वमङ्गीकृतमिति चेन्न । तत्र मुख्यार्थासंभवात्प्राप्तिपरत्वमङ्गीकृतम् । तद्वदत्राङ्गीकारे न मानमिति भावः । ब्रह्मविद्येति । उक्तार्थपरत्वाभावे उदाहृतवचनविरोध इति भावः । प्रकरणानुगुणेति । प्रकृतिदुष्कर्मभ्रान्त्याद्यर्थपरत्वं ग्राह्यमित्यर्थः । तृतीयं दूषयतिआदिशब्देनेत्यादि । सत्कर्मणीति । अवयवशक्तयैव प्रयोगोपपत्तेरिति भावः । ज्ञानपिधानलिङ्गाच्च दुष्कर्मपरत्वमित्याह-दुष्कृतस्य चेति । चतुर्थादिं दूषयति--एवमिति । 'असदेवेदमग्र आसीत्' 'तद्धेदं 1 निर्वाहस्यापि क्लि-पा. 2 चतुर्थ दू-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy