SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ सर: ३] अविद्याशब्दस्यापि मिथ्येतरपाकरणिकनित्यप्रकृतिसत्कर्मादिपरत्वस्थापनम् 179 सर्वार्थसिद्धिः त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम् । अचेतना परार्था च नित्या सततविक्रिया ॥ इत्यादिभिस्तन्नित्यत्वसिद्धेः । कथं तर्हि " मृत्युबै परे देव एकीभवति, तमः परे देव एकीभवति" इति वाक्ययोर्निर्वाहः ? इत्थम्सर्वाधारभूते परस्मिन्दवे विभक्तावस्थात्यागेनैकत्व'दशावस्थानमात्रं ह्यत्राभिप्रेतम् । एतेन प्रकृतिर्या मयाऽऽख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि ।। इत्येतदपि व्याख्यातम् । " अविद्यया मृत्यु तीवा" इत्यत्राविद्याशब्दस्तत्त्वज्ञानविरोधिनिवर्तकसत्कर्मविषयतया भाष्ये व्याख्यातः । अनुवाके प्रकृतयोर्विद्याकर्मणोरेव विद्यां चाविद्यां च यस्तद्वेदोभयं सह । इति परामर्शात्, पर्युदासवृत्तनत्रश्वासन्नविषयत्वोपपत्तः । ___ आनन्ददायिनी मिथ्यात्वविरोधित्वात्, तथा नित्यत्वस्यापीति भावः। नन्वेकीभावस्य निवृत्तिरूपतया नित्यताविरोधित्वात् कथं नित्यत्वमिति शङ्कते-कथं तीति । मृत्युतमश्शब्दाभ्यां प्रकृतिरुच्यते । ननु यत्र लयशब्दोऽस्ति तत्र कथमित्यत्राह--एतेन प्रकृतिरिति । पुरुषस्य नित्यतया निवृत्त्यसम्भवात् लीङ् श्लेषण इत्यत्रात्यन्तसम्बन्धस्यैवोक्तेरिति भावः । ननु ‘अविद्यया मृत्यु तीर्खा' इत्यत्राविद्यायास्संसारप्राप्तिहेतुत्वप्रतिपादनेन मिथ्यात्वपरत्वं स्यादित्यत्राह-अविद्ययेति । प्रोक्षणीन्यायेनावयव. शक्तयैवोपपत्तेर्लाघवादिति भावः। तरतिः निवृत्तिपरः। पर्युदासेति । 1दशयाऽवस्थान-पा. ' इत्यत्राप्यविद्या-पा. 3 वाकप्र-पा. 12*
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy