________________
178
सव्याख्यसर्वार्थसिद्विसहिततत्त्वमुक्ताकलापे
[नायक
सर्वार्थसिद्धिः सत्यविषयमेव संमन्तव्यम् | " मायामात्रं तु" इति सौत्रं पदमपि स्वतन्त्र. संकल्पमूलस्वाप्नसर्गस्याश्चर्यतमत्वपरम् । जीवकर्तृकसृष्टिव्यवच्छेद एव ह्यधिकरणे 'युज्येत । प्रागेव हि स्थापितप्रपञ्चमिथ्यात्वानामिह पुनस्सुप्रसिद्ध स्वप्नविषये विशेषतश्शङ्का नाङ्कुरात । योगे वा जागरप्रपञ्चसत्यत्वमभ्यनुज्ञायैव ? चिन्ता स्यात् । अविद्या शब्दोऽपि न कचिदप्यनिर्वचनीयजगदुपादानविषय.। तथा हि "क्षरं त्वविद्या ह्यमृतं तु विद्या” इत्यादौ “क्षर प्रधानम्" इत्यादिप्राकरणिकवाक्यैकार्थ्यात् प्रधानविषयत्वमेव युक्तम् । अत्र च विद्याशब्दोक्तात् पुरुषादन्यतामात्रेण प्रकृतावविद्याशब्दः । न च सा मिथ्या, गौरनाद्यन्तवती सा जनित्री भूतभावनी ।
आनन्ददायिनी सत्यविषयमेवेति । सत्यभूतत्रिगुणसङ्कल्पशक्तयादिवैषम्यविषयमवेत्यर्थः । तथा · मायामात्रमिदं सर्वमनभिव्यक्तस्वरूपत्वात् ' इति सूत्रमपि । इदं सर्व स्वामप्रपञ्च सर्व मायामानं विचित्रं जाग्रत्प्रपञ्चविलक्षण, कुतः ; अनभिव्यक्तस्वरूपत्वात् अभिव्यक्तं यत् लोकसिद्धं तादृश कारणसिद्धत्वाभावादित्यर्थकत्वात्तदपि पराभिमतसाधक न भवतीत्याह-मायामात्रमिति । तत्सूत्रस्य पराभिमतार्थ पराकरोति-- प्रागेवेति । आरम्भणाधिकरणादिष्वित्यर्थः । योगे वेति । शङ्काया इति शेषः। जागरप्रपञ्चसत्यत्वाभ्यनुज्ञाभावे स्वाग्ने विशिष्यशङ्कानुदयातन्मात्रमिथ्यात्वसाधनवयदिति भावः । द्वितीयं दूषयतिअविद्याशब्द इति । नन्वन्तु प्रधानविषयत्वं तस्यैव मिथ्यात्वोक्ताविष्टसिद्धोरित्यत आह--अत्र चेति । नाविद्याशब्दो मिथ्यावचन इति भावः । विरोधाच्च न मिथ्यार्थत्वमित्याह-न चेति । अनन्तत्वस्य
युज्यते-पा. 2 चिन्ता न स्यात्-पा. शब्दो न क-पा.