________________
सरः ३]
मायाशब्दस्य मिथ्येतरबुद्धिशक्तिविशेषाद्यर्थपरत्वव्यवस्थापनम्
177
सर्वार्थासद्धिः भूतबुद्धिविशेषविषयम् । 'माया वयुन ज्ञानम् " इति च नैघण्टुकाः । एवं सति “इच्छागृहीताभिमतोरुदेहः,
समस्तशक्तिरूपाणि तत्करोति जनेश्वरः ।
देवतियङ्मनुष्याख्याचेष्टावन्ति स्वलीलया ॥" इत्यादिभिरैकार्थ्यं स्यात् । “ मम माया दुरत्यया" इत्यादिषु गुणमयीति विशेषणात् 1 त्रिगुणद्रव्यविषयत्वमेव कण्ठोक्तम् । तथा च तन्नामपाठः । एतेन
भ्रामयन् सर्वभूताति यन्त्रारूढानि मायया । इत्यपि गतार्थम् । . भूयश्चान्ते विश्वमायानिवृत्तिः” इत्येतदपि प्रस्तुतयोगबलान्निश्शेषमायातरणमेव निर्दिशति । एवं " विष्णुमायामहावर्त", "विष्णोविचित्राः प्रभवन्ति मायाः” इत्यादिकमपि
आनन्ददायिनी
माया वयुनमिति । ननु ‘मम माया' इत्यत्रापि सङ्कल्पग्रहणसंभवे प्रकृतिपरत्वसिद्धान्तो न स्यादित्यत्राह-मम मायेत्यादिना। एषा गुणमयीति विशेषणादित्यर्थः । तथा चेति । त्रिगुणं प्रधानमिति प्रसिद्धिरित्यर्थः । एतेनेति । मायया सङ्कल्पेन यन्त्रारूढानि प्रकृतिरूपयन्त्रारूढानीत्यर्थः । ननु · विश्वमायानिवृत्तिः' इत्यत्र निवृत्तिप्रतियोगिन्याः पराभिमताविद्यापरत्वं वक्तव्यं. सिद्धान्त्यभिमतरीत्याऽपि प्रकृतेनित्यत्वादित्यत्राहविश्वमायानिवृत्तिरित्येतदपीति। मायाया निवृत्तिरसम्बन्ध इत्यर्थः ।
अदित्याह-ग.
1 त्रिगुणविय-
पावर्त-पा. SARVARTHA VOL. IV.
12