SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ 176 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे [नायक सर्वार्थसिद्धिः च मायाशब्दो न दृष्टचरः। स्वमतव्यामोहितानां प्रयोगस्त्वनादेयः । " मायां न सेवे भद्र ते न वृथा धर्ममाचरे " " मायाविनं मायया वर्तमानम्" इत्यत्र च व्यामोहनमात्रं विवक्षितम् । तेन वञ्चयते लोकान्मायायोगेन केशवः । इत्येतदप्यसुरवञ्चनाशक्तियोगपरम् । " इन्द्रो मायाभिः पुरुरूप ईयते " इत्येतच्च शक्तिविशेषैः प्रभूतरूपप्रकाशनपरम् , अन्यथाऽनन्वयात् । न चेदमिन्द्रभ्रान्तिपरं वाक्यं, प्रशंसार्थप्रकरणविरोधात् । कथमन्यथा “ युक्ता यस्य हरयश्शता दश भूरि त्वष्टह राजति" इत्यादिकं घटते ? " संभवाम्यात्ममायया" इत्येतदप्योचित्यात् स्वच्छन्दावतारहेतु आनन्ददायिनी मायाशब्दप्रयोगसिद्धेस्तद्वति मायाविशब्दप्रयोगोऽनुक्तसिद्ध इति चेत्, न। ऐन्द्रजालिके प्रयोगस्य सिद्धत्वेऽपि तद्वयतिरिक्त भ्रान्तिस्थले प्रयोगाभावात् ; ऐन्द्रजालिके च विचित्रकार्यकरत्वेनान्यथासिद्धः प्रयोगः, न च तत्र भाक्तत्वोक्तिविरोधः । इन्द्रजालस्यैव मायात्वेन तज्जन्यस्य कार्यतया भाक्तत्वौचित्यादिति भावः। ननु वाचस्पत्यादौ प्रयोगो दृश्यत इति चेत्तत्राह–स्वमतेति। व्यामोहनं वञ्चनाशक्तिः । स्तुतिप्रकरणतामेव दर्शयति-कथमन्यथेति। अस्य इन्द्रस्य हरयो दशशताः सहस्रं युक्ताः प्राप्ताः । तस्मात्त्वष्टा इन्द्रः भूरि राजति पुरुषरूपत्वेन प्रकाशत इत्यर्थः । औचित्यादिति। विचित्रकार्यकरशक्ति वाचिनोऽपि बुद्धिरूपविशेषशक्तिपरत्वं युक्तमित्यर्थः । वस्तुतसामान्यशब्दस्य पुरुषशब्दवत् विशेषेऽपि शक्तिरित्याह-- 1 वाचिनो बु-क.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy