________________
सरः ३]
श्रुत्यादिगतमायाशब्दस्य मिथ्यार्थवाचकत्वाभावसमर्थनम्
175
सर्वार्थसिद्धिः इति । न च मायाशब्दो मिथ्यीवाचा ; लोक'वेदनिघण्टुपाठाभावात् । कचित्प्रयोगस्तु भाक्तः स्यात् ; अन्यथा “देवमायेव निर्मिता" "स्वमायया सांप्रतमागतं वा “ऋते मायां विशालाक्षी तव पूर्वपरिग्रहाम्" तेन मायासहस्रं तत्" इत्यादिभिर्विरुध्येत । नीतिशास्त्रेषु च मुख्यामुख्यसंकलनेन सप्तविधोपायपरिगणने मायेन्द्रजालयो रन्यथाप्रतिभासनसामर्थ्यरूपतया विभागस्सिद्धः । मन्त्रौषधादिविशेषवति च मायावीति प्रयोगः, न तु क्वचिदपि मिथ्यार्थसंबन्धिनि । तिमिरादिभासितरज्जुसादौ
आनन्ददायिनी किं चोद्देश्यविधेयभाववैपरीत्येऽपि नाविद्यासिद्धिरित्याह--न चेति । लोकनिघण्टुरमरादिः। वेदनिष्टुः पारतादिः। केचित्तुलोकवेदशब्दाभ्यां लोकवेदप्रयोगोऽभिमतः। नन्वैन्द्रजालिकपदार्थे इदं सर्व मायेति लोकप्रयोगदर्शनात् तसिद्धिरित्यत्राहक्वचिदिति । अन्यथा-तस्य मुख्यार्थत्वे । देवमाया देवीरूपा माया आश्चर्य-रूपा। मायां विशालाक्षी विचित्रसृष्टिहेतुभूतां प्रकृतिमित्यर्थः । मायासहस्रं वञ्चनया प्रयुक्तप्रहरणादिकमित्यर्थः । ननु देवमायेत्यादिप्रयोगानामेव भाक्तत्वमस्तु, विनिगमकाभावादित्यत आहनीतिशास्त्रेष्विति । अन्यथाकरणसामर्थ्य माया, अन्यथाप्रतिभासजननसामर्थ्यमिन्द्रजालमिति द्रष्टव्यम् । शक्ति ग्राहक प्रयोगमप्याह--- मन्त्रौषधेति । अन्यथाकरणसामर्थ्यरूपमिति भावः । मिथ्यार्थवाचकत्वे भ्रान्ते पुरुषादौ अध्यासाधिष्ठानभूतरज्ज्वादौ वा मायावीति प्रयोगं आरोप्ये सर्पादौ च मायाशब्दप्रयोगं चानिष्टमापादयति । न तु क्वचिदिति । ननु पूर्व क्वचित्प्रयोगो भाक्त इत्युक्तेर्मिथ्यावस्तुनि
___1 घण्टकपाठा-पा. रन्यथाकरणान्यथा-पा. 3 नात् सिद्धिः-क. रूपां मा-ग. पायकप्रयोग-ग. 6 मिथ्यात्ववाचक-क. योगं च न निर्दिष्ट-ग,